________________
७२२
যীশান্ত स्थूलभद्रवियोगार्ता श्रीयकं प्रेक्ष्य साऽरुदत् । इष्टे दृष्टे हि दुःखार्ता न दुखं धर्तुमौशते ॥ ८४ ॥ ततस्तां श्रीयकोऽवोचदार्ये ! किं कुर्महे वयम् । असौ वररुचिः पापोऽघातयज्जनकं हि नः ॥ ८५ ॥ अकाण्डोस्थितवजाग्निप्रदीपनसहोदरम्। स्थूलभद्रवियोगं च भवत्या अकरोदयम् ॥ ८६ ॥ त्वज्जाम्यामुपकोशायां यावद् रक्तोऽस्त्यसौ खलः । तावत् प्रतिक्रियां काञ्चिद् विचिन्तय मनस्विनि ! ॥८७ ॥ तदादिशोपकोशां यत् प्रतार्य कथमप्यसौ। विधीयतां वररुचिर्मद्यपानरूचिस्त्वया ॥ ८८ ॥ प्रेयोवियोजनाद् वैराद दाक्षिण्याद देवरस्य च । तत् प्रतिज्ञाय सा सद्योऽप्यपकोशां समादिशत् ॥ ८८. कोशायाश्च निदेशेनोपकाशा तं तथा व्यधात् । यथा पपी सुरामेष स्त्रीवशैः क्रियते न किम् ? ॥..॥ सुरापानं वररुचि: खैरं भट्टोऽद्य कारितः । उपकोशति कोशाय शशंसाथ निशात्यये ॥ २१ ॥ अथ कोशामुखात् सर्वं शुश्राव श्रीयकोऽपि तत् । भने च पिटवरस्य विहितं प्रतियातनम् ॥ ४२ ॥ शकटालमहामात्यात्ययात् प्रभृति सोऽप्यभूत् । भट्टो वररुचिर्भूपसेवावसरतत्परः ॥ ८३ ॥ स प्रत्यहं राजकुले सेवाकाले समापतन् । राज्ञा च राजलोकैश्च सगौरवमदृश्यत ॥ ८४ ॥