________________
तृतीयः प्रकाशः |
यथा स्वदेहद्रविणव्ययेनापि प्रयत्यते ।
राजार्थे, तद्ददात्मार्थे यत्यते किं न धीमता ? ॥ ७३ ॥ विमृश्यैवं व्यधात् केशोत्पाटनं पञ्चमुष्टि सः । रत्नकम्बलदशाभी रजोहरणमप्यथ ॥ ७४ ॥ ततश्च स महासत्त्वो गत्वा सदसि पार्थिवम् । आलोचितमिदं धर्मलाभः स्तादित्यवोचत ॥ ७५ ॥ ततः स राजसदनादु गुहाया इव केसरी | निःससार महासारः संसारक रिशेषणः ॥ ७६ ॥ किमेष कपटं कृत्वा यायादु वेश्याग्टहं पुनः । इत्यप्रत्ययतः क्ष्मापो गवाक्षेण निरैक्षत ॥ ७७ ॥ प्रदेशे शबदुर्गन्धेऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलभद्रं नरेन्द्रोऽधूनयच्छिरः ॥ ७८ ॥ भगवान् वीतरागोऽसावस्मिन् धिग् मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैर्नन्दस्तमभिनन्दयन् ॥ ७८ ॥ स्थूलभद्रोऽपि गत्वा श्रीसंभूतिविजयान्तिके । दीक्षां सामायिकोञ्चारपूर्विकां प्रत्यपद्यत ॥ ८० ॥ गृहीत्वा श्रीयकं दोष्णि ततो नन्दः सगौरवम् । मुद्राधिकारे निःशेषव्यापारसहिते न्यधात् ॥ ८१ ॥ चकार श्रीयको राज्यचिन्तामवहितः सदा । साक्षादिव शकटालः प्रकृष्टनयपाटवात् ॥ ८२ ॥ स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहादु भ्रातुस्तप्रियादि कुलीनैर्बहु मन्यते ॥ ८३ ॥
८१
७२१