________________
हतीय: प्रकाशः।
७१५
स्वयंवर्नवनवैरष्टोत्तरशतेन सः । वृत्तः प्रवृत्तोऽनुदिनं नृपावलगने सुधीः ॥ १० ॥ मिथ्यागिति तं मन्त्री प्रशशंस न जातुचित् । तुष्टोऽप्यस्मै तुष्टिदानं न ददौ नृपतिस्ततः ॥ ११ ॥ जात्वा वररुचिस्तत्र दानाप्रापण कारणम् । पाराधयितुमारेभ ग्रहिणों तस्य मन्त्रिण: ॥ १२ ॥ संतुष्टया तयाऽन्येाः कार्य पृष्टोऽब्रवीदिदम् । राजः पुरस्ताद मत्काव्यं तव भर्ता प्रशंसतु ॥ १३ ॥ तया तदुपरोधन तद्विजप्तोऽवदत् पतिः । मिथ्यादृष्टरमुष्याहं प्रशंसामि कथं वचः ? ॥ १४ ॥ तयोक्त: साग्रहं मन्त्री तत् तथा प्रत्यपद्यत । अन्धस्त्रीबालमूर्खाणामाग्रहो बलवान् खलु ॥ १५ ॥ राज्ञः पुरस्तात् पठत: काव्यं वररुचेस्ततः । अहो ! सुभाषितमिति वर्णयामास मन्तिराट् ॥ १६ ॥ दीनारशतमष्टाग्रं ततोऽस्मै नृपतिर्ददी। राजमान्यस्य वाचापि जीव्यते ह्यनुकूलया ॥ १७॥ दौनाराष्टोत्तरशते दीयमाने दिने दिने । किमेतद् दीयत इति भूपं मन्त्री व्यजिजपत् ? ॥ १८ ॥ अथोचे नृपतिर्मन्विन् ! दमोऽस्मै त्वत्प्रशंसया । वयं यदि स्वयं दद्मो दद्मः किं न पुरा तत: ? ॥ १८ ॥ मन्त्राप्यूचे मया देव ! प्रशंसा नास्य निर्ममे । काव्यानि परकीयानि प्रशशंस तदा त्वहम् ॥ २० ॥