________________
७१४
.. योगशास्त्रे भद्रादीनां साधूनां तबित्तिं योषिदङ्गनिवृत्तिं परामशन् अनुस्मरन् ।
स्थूलभद्रचरितं संप्रदायगम्यम् । स चायम् ;
अस्ति सोधप्रभाजालधूपधूमैनिरन्तरैः। जितगङ्गाजासङ्गं पाटलीपुत्रपत्तनम् ॥ १ ॥ तत्र त्रिखण्डपृथिवीपतिः पतिरिव श्रियः । समुत्खातहिषत्वान्दो नन्दो नामाभवद् नृपः ॥ २ ॥ विसंकटः श्रियां वासोऽसंकटः शकटो धियाम् । शकटाल इति तस्य बभूवामात्य पुङ्गवः ॥ ३ ॥ तस्याभूज्जाष्ठतनयो विनयादिगुणास्पदम् । अस्थूलधीः स्थूलभद्रो भद्राकारनिशाकरः ॥ ४ ॥ भक्तिनिष्ठः कनिष्ठोऽस्य श्रीयकोऽजनि नन्दनः । नन्दराहृदयामन्दानन्दगोशीर्षचन्दनः ॥ ५ ॥ बभूव तत्र कोशेति वेश्या रूपश्रियोर्वशी । वशीकृतजगञ्जेताश्चेतोभूजीवनौषधिः ॥ ६ ॥ भुञ्जानो विविधान् भोगान् स्थलभद्रो दिवानिशम् उवासावसथे तस्या हादशाब्दानि तन्मना: ॥ ७ ॥ श्रीयकस्त्वङ्गरक्षोऽभूदु भूरिविश्रभभाजनम् । द्वितीयमिव हृदयं नन्दस्य पृथिवीपतेः ॥ ८ ॥ तत्र चासौद वररुचिर्नाम हिजवराग्रणीः । कवीनां वादिनां वैयाकरणानां शिरोमणिः ॥ ८ ॥