SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७१३ तृतीयः प्रकाशः। देवा अहट्टारकाः, गुरवो धर्माचार्याः, तेषां स्मृतिमनस्यारोपणं तया पविनितो निर्मलीभूतात्मा। उपलक्षणं चैतञ्चतुःशरणगमनदुष्कृतगर्हा-सुक्तानुमोदना-पञ्चनमस्कारस्मरणप्रभृतीनाम् । न ह्येतत्स्मरणमन्तरेण पवित्रता भवति। तत्र देवस्मृति:-"'नमो वीयरायाणं सवस्मणं तिलोकपूइआणं जहट्ठिअवस्थुवाईणं” इत्यादि। गुरुस्मृतिश्च—“धन्यास्ते ग्राम-नगर-जनपदादयो येषु मदीया धर्माचार्या विहरन्ति ।” निद्रामल्यामिति । निद्रामिति विशेष्यम्, अल्पामिति विशेषणम् । विशेषणस्य चात्र विधिः, “सविशेषणे हि विधि-निषेधौ विशेषणमुपसंक्रामतः” इति न्यायात् । निद्रामिति च विशेष्य मिति न तत्र विधिः, दर्शनावरणीयकर्मो. दयेन निद्रायाः स्वतः सिदत्वात्, ‘अप्राप्ते हि शास्त्रमर्थवत्' इत्युक्तप्रायम् । अब्रह्म मैथुनं तद् वर्जयति अब्रह्मवर्जकः, प्रायेणेति बाहुल्येन, एहस्थत्वादस्य ॥ १३१ ॥ पुनश्च पयत्। निद्राच्छेदे योषिदङ्गसतत्त्वं परिचिन्तयेत् । स्थूलभद्रादिसाधूनां तन्नित्तिं परामृशन् ॥१३२॥ परिणतायां रात्रौ निद्रायाछेदे सति योषिदङ्गानां स्त्रीशरीराणां सतत्त्वं स्वरूपं परितश्चिन्तयेत् । किं कुर्वन् ? स्थूल ( १ ) नमो वीतरागेभ्यः सर्वज्ञेभ्यस्त्रैलोक्यपूजितेभ्यो यथास्थितवस्तुवादिभ्यः । .
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy