________________
७१२
योगशास्त्रे
वस्मयं इति वचनात् श्रावकस्याप्यावश्य कमुक्तमेव । ततः कतषड्विधावश्यक कर्मा स्वाध्यायम्, अणुव्रतविध्यादेः पञ्चनमस्कारस्य वा परिवर्तनं कुर्यात् ; अथवा, स्वाध्यायं पञ्चविधं वाचना-प्रश्नपरिवर्तना-ऽनुप्रेक्षा-धर्मकथारूपं कुर्यात्। यस्तु साधूपाश्रयमागन्तुमशक्तो राजादि महर्डिको वा बह्वपायः स स्वग्रह एवावश्यकं स्वाध्यायं च करोति । उत्तम मित्युत्तमनिर्जराहेतुम्, यदाह ;
बारसविहम्मि वि तवे सभिंतरबाहिरे कुसलदिखे। ... नवि अस्थि नवि अ होही सज्झायसमं तवोकम्मं ॥ १ ॥ तथा,
सज्झाएण पसत्थं झाणं जाण असव्वपरमत्थं । -
सज्झाए वहतो खण खणे जाह वेरग्गं ॥ १ ॥ इत्यादि ॥ १३० ॥
न्याय्ये काले ततो देवगुरुस्मृतिपविवितः ।' निद्रामल्पामुपासीत प्रायेणाब्रह्मवर्जकः ॥ १३१॥
न्याय्यो न्यायादनपेतः कालः, स च रात्रेः प्रथमयामोऽर्धरात्रं वा शरीरसात्म्येन, तत इति स्वाध्यायकरणानन्तरं, निद्रामल्यामुपासौतेति क्रिया। कथम्भूतः सन् ? देवगुरुस्मृतिपवित्रित:
(१) हादयविधेऽपि तपसि साभ्यन्तरबाह्ये कशलदिष्टे । - नाप्यस्ति नापि च भविष्यति खाध्यायसमं तपःकर्म ॥१॥ (२) स्वाध्यायेन प्रशस्तं ध्यानं जानाति च सर्व परमार्थम। . .
खाध्याये वर्तमानः क्षणे क्षणे याति वैराग्यम् ॥ १॥