________________
योगशास्त्रे भेदात् । अवगाहेन स्नेहबोलनेन निवृत्तमवगाहिम पकानम् "भावादिमः” ( सिद्ध हेम-६।४ २१। ) इतीमः, यत् तापिकायां
तादिपूर्णायां चलाचलं खाद्यकादि पच्यते, तस्यामेव तापिकायां तेनैव कृतन द्वितीयं रतीयं च खाद्यकादि विकतिः, ततः परं पक्वान्नानि योगवाहिनां निर्विकृतिप्रत्याखयानेऽपि कल्पन्ते । अथैकेनैव पूपकेन तापिका पूर्यते तदा द्वितीयं पक्वान्नं निविकृतिप्रत्याख्यानेऽपि कल्पते, लेपकतं तु भवति । इत्येषा वृद्धसामाचारी। एतासु च दशसु विक्कतिषु मद्यमांसमधुनवनीतलक्षणाश्वतस्रो विकतयोऽभक्ष्याः। शेषास्तु षड् भक्ष्याः । तत्र भक्ष्यासु विकृतिवेकादि विकृतिप्रत्याखयानं षविकृतिप्रत्याखाानं च निर्विकतिकसंज्ञं विकतिप्रत्याखाानेन संग्रहीतम् । आकाराः पूर्ववत् । नवरम्, गिहत्यसंसट्टेणं इति गृहस्थेन स्वप्रयोजनाय दुग्धसंसृष्ट प्रोदनो दुग्धं च तमतिक्रम्योत्कर्षतश्चत्वार्यङ्ग लानि यावदुपरि वर्तते तदा तद् दुग्धम विकतिः, पञ्चमाङ्गलारम्भे विक्कतिरेव ।। अनेन । न्यायेनान्यासामपि विकृतीनां गृहस्थासंसृष्टत्वमागमादवसेयम् । उक्वित्तविवेगेणं इति, उत्क्षिप्तविवेक आचामाम्नवदुर्तु शक्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु नास्ति । पडुच्च मक्विएणं इति, —प्रतीत्य सर्वथा रूक्षमण्डकादिकमपेक्ष्य म्रक्षितं स्नेहितमौषमीकुमार्योत्पादनाय म्रक्षण कृतविशिष्टखादुतायाथाभावाद् म्रक्षितमिव यद् वर्तते तत् प्रतीत्य मक्षितं म्रक्षिताभासमित्यर्थः । इह चायं विधि:-यद्यगुल्या तैलादि गृहीत्वा मण्ड कादि मक्षितं तदा कल्पते निर्विवतिकस्य, धारया तु न कल्पते । व्युत्सृजति