________________
योगशास्
निर्मलादुष्णोदकादेः ; बहुलाद वा गडुलात् तिलतन्दुलधावनादेः, ससिक्याद वा भक्तपुला कोपेतादवस्रावणादेः, असिक्थाद्वा सिक्थवर्जितात् पानकाहारात् ॥
अथ चरमम् । चरमोऽन्तिमो भागः । स च दिवसस्य भवस्य चेति द्विधा । तद्विषयं प्रत्याखानमपि चरमम् । इह च भवचरमं यावज्जीवम् । तत्र द्विविधेऽपि चत्वार आकारा भवन्ति ; यत्सूत्रम् ;
दिवसचरिमं भवचरिमं वा पञ्चक्वाइ चव्विहं पि श्राहारं असणं पां खामं साइमं अन्नत्थणाभोगेणं सहसागारेणं महतरागारेणं सव्वसमाहिवत्तित्रागारेणं वोसिरइ ।
ननु दिवसचरिमप्रत्याखयानं निष्फलम्, एकाशनादिप्रत्याखानेनैव गतार्थत्वात् । नैवम्, एकाशनादिकं ह्यष्टाद्याकारमेतच्च चतुराकारम्, अत आकाराणां संक्षेपकरणात् सफलमेव । अत एवैकाशनादिकं दैवसिकमेव भवति, रात्रिभोजनस्य त्रिविधं त्रिविधेन यावज्जीवं प्रत्याख्यातत्वात् । गृहस्थापेक्षया पुनरिदमादित्योहमान्तम्, दिवसस्याहोरात्रपय्यायतयापि दर्शनात् । तत्र येषां रात्रिभोजननियमोऽस्ति तेषामपीदं सार्थकम्, अनुवादकत्वेन स्मारकत्वात् । भवचरमं तु प्राकारमपि भवति । यदा जानाति महत्तर सर्वसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनम्, तदाऽनाभोगस हसाकाराकारौ भवतः अङ्गुल्यादेरना
अत एवेदमना
भोगेन सहसाकारेण वा मुखे प्रक्षेपसंभवात् । कारमप्युच्यते, आकारद्दयस्यापरिहार्यत्वात् ॥
૭.