________________
७०४
योगशास्त्रे उक्वित्तविवेगेणं गिहत्यसंसट्टेणं पारिट्ठावणिभागारणं महत्तरागारेणं सबसमाहिवत्तित्रागारेणं वोसिरह।
प्राचामोऽवस्रावणम्, अम्मं चतुर्थो रसः, एते च प्रायेण व्यञ्जने यत्र भोजने प्रोदन-कुल्माष-सक्तुप्रभृतिके तदाचामाम्नं समयभाषयोच्यते, तत् प्रत्याख्याति-आचामालप्रत्याख्यानं करोतीत्यर्थः । श्राद्यावन्त्याश्च त्रय प्राकाराः पूर्ववत् । लेवालेवेणं लेपो भोजनभाजनस्य विकत्या तोमनादिना वाऽऽचामाम्नप्रत्याख्यातुरकल्पनौयेन लिप्तता, अलेपो विक्वत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चालेपश्च लेपालेपं तस्मादन्यत्र-भाजने विक्कत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः । उक्वित्तविवेगेणं शुष्कौदनादिभक्ते पतितपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकत्यादिद्रव्यस्योक्षिप्तस्योहत्तस्य विवेको नि:शेषतया त्याग उत्क्षिप्तविवेक उत्क्षिप्तत्याग इत्यर्थः, तस्मादन्यत्र-भोक्ताव्यद्रव्यस्याभोक्तव्यद्रव्य स्पर्शनापि न भङ्ग इति भावः। यत्तूरक्षेप्तुं न शक्यं तस्य भोजने भङ्गः। गिहत्यसंसडेणं गृहस्थस्य भक्तदायकस्य संबन्धि करोटिकादिभाजनं विक्वत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टं, ततोऽन्यत्र । विकृत्यादिसंसृष्टभाजनेन हि दीयमानभक्तम कल्पाद्रव्यावयवमित्रं भवति, न च तद् भुञ्जानस्यापि भङ्गः, यद्यकल्पाद्रव्यरसो बहु न ज्ञायते । वोसिर इतिअनाचामाम्लं चतुर्विधाहारं च व्युत्सजति ॥
अथाभक्तार्थप्रत्याख्यानम् । तत्र पञ्चाकाराः, यत् सूत्रम् ;सूरे उग्गए अभत्तहँ पञ्चक्खाइ चउविहं पि पाहारं असणं