________________
हतीयः प्रकाशः।
७०३
क्रियमाणे किञ्चिदासनं चलति ततोऽन्यत्र प्रत्याख्यानम् । गुरुअब्भुट्ठाणणं गुरोरभ्युत्थानाईस्याचार्यस्य प्राघुण कस्य वाऽभ्युत्थानं प्रतीत्यास'नत्यजनं गुर्वभ्युत्थानं ततोऽन्यत्र । अभ्युत्थानं चावश्यकर्तव्यत्वाद् भुञ्जाननापि कर्तव्यमिति न तत्र प्रत्याख्यानभङ्गः । पारिद्वावणिभागारेणं परिष्ठापनं सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकमत्रं तदेवाकारः पारिष्ठापनिकाकारः, ततोऽन्यत्र । तत्र हि त्यज्यमाने बहुदोषसंभवात्, पाश्रीयमाणे चागमिकन्यायेन गुणसंभवाच्च गुजिया पुनर्भुजानस्य न भङ्गः । वोसिर इति, अनेकासनमशनाद्याहारं च परिहरति ॥ ' अथैकस्थानकम् । तत्र सप्ताकाराः । अत्र सूत्रम–एकट्ठाणं पञ्चकवार इत्याद्येकाशनवत् । प्राकुञ्चनप्रसारणाकारवर्जमेकमद्वितीय स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानम् । यद् यथा भोजनकालेऽङ्गोपाङ्गं स्थापितम्, तस्मिंस्तथास्थित एव भोतव्यम् । मुखस्य पाणश्वाशक्यपरिहारत्वाञ्चलनं न प्रतिषितम् । पाकुञ्चनप्रसारणाकारवर्जनं चैकाशनतो भेदज्ञापनार्थम्, अन्यथेकासनमेव स्यात् ॥ अथाचामालम् । तत्राष्टावाकाराः। पत्र सूत्रम् ;
आयंबिलं पञ्चक्लाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेशं
(१) च. न वर्जनम् । (२) प-च तम गु-।