________________
७०२
योगशास्त्रे
तथैकाशनप्रत्याख्यानम् । तत्राष्टावाकाराः, यत् सूत्रम्:
एक्कासणगं पञ्चक्खाइ चउब्विहं पि आहारं पासणं पाणं खाइमं साइमं असत्यणाभोगणं सहसागारणं सागारिपागारणं पाउंटणपसारणणं गुरुप्रभुट्ठाणणं पारिट्ठावणियागारणं महत्तरागारेणं सबसमाहिवत्तिपागारणं वोसिरइ ॥
एकं सक्दशनं भोजनम्, एकं वासनं पुताचलनती यत्र तदेकाश नमेकासनं च ; प्राक्कते इयोरपि 'एगासणं' इति रूपम् , तत् प्रत्याख्याति-एकाशनप्रत्याख्यानं करोतीत्यर्थः। अत्राद्यावत्यौ च हावाकारौ पूर्ववत् । सागारिभागारणं सह प्रगारण वर्तत इति सागारः स एव सागारिको गृहस्थः स एवाकारः प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र । गृहस्थसमक्ष हि. साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसंभवात् ; अत एवोत्तम् ;. 'छक्कायदयावंतो वि संजो दुल्लहं कुणइ बोहिं । ...पाहार नौहारे दुगुंछियपिंडगहणे ॥ १ ॥
ततश्च भुञानस्य यदा सागारिक: समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा स्वाध्यायादिव्याघाती मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञानस्यापि न भङ्गः । गृहस्थस्य तु येन दृष्टं भोजनं न जौर्यति स सागारिकः । पाउंटणपसारणेणं-आउंटणं आकुञ्चनं जसादः संकोचन प्रसारणं च तस्यैवाकुञ्चितस्य ऋजूकरणम्, आकुञ्चने प्रसारण चासहिष्णुतया
(१) षटकायदयावानपि संयतो दुर्लभं करोति बोधिम् ।
श्राहारे नीहारे जगुभितपिण्डपणे च ॥ १॥ .
.