SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः | स्तस्य प्रत्ययः कारणं स एवाकारः प्रत्याख्यानापवादः सर्वसमाधि-समाधिनिमित्तमौषधपथ्यादिप्रवृत्तावपूर्णायामपि प्रत्ययाकारः पौरुष्यां भुङ्क्ते तदा न भङ्ग इत्यर्थः । वैद्यादिर्वा कृतपौरुषीप्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदाऽपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, अर्धभुक्ते त्वातुरस्य समाधौ मरणे वोत्पत्रे ज्ञाते सति यथैव भोजनस्य त्यागः ॥ सार्धपौरुषोप्रत्याख्यानं पौरुषीप्रत्याख्यान एवान्तर्भूतम् ॥ ७०१ अथ पूर्वार्धप्रत्याख्यानम् - सूरे उग्गए पुरिमड्ढं पञ्चवक्वाइ चउव्विहं पि श्रहारं असणं पाणं खाइमं माइमं अवत्थणा भोगेणं सहसागारेणं पच्छ मेणं कालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेण वोसिरइ ॥ पूर्वं च तदर्धं च पूर्वार्धं दिनस्याद्यं प्रहरदयं पूर्वाधं प्रत्याख्याति पूर्वार्धप्रत्याख्यानं करोति । षडाकाराः पूर्ववत् । 'महत्तरागारेणं' इति, महत्तरं प्रत्याख्यानानुपालनलभ्य निर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसंघादिप्रयोजनं तदेवाकार: प्रत्याख्यानापवादो महत्तराकारस्तस्मात् 'अन्यत्र' इति योगः । यच्चात्रैव महत्तराकारस्याभिधानं न . नमस्कारसहितादौ तत्र कालस्याल्पत्वं महत्त्वं च कारण माचक्षते । (१) डष्यांन ।
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy