________________
७००
योगशास्त्रे
अथ पौरुष प्रत्याख्यानम्
पोरिसिं पञ्चकवाइ उग्गए सूरे चउब्विहं पि आहारं असणं
पाणं खाइमं साइमं असत्यणाभीगेणं सहसागारेणं पच्छवेणं कालेगं दिसामोहेणं साहुवयणेणं
सव्वसमाहिवत्तित्रागारेणं
वोसिरइ ॥
पुरुषः प्रमाणमस्याः पौरुषी छाया तद्युक्तः कालोऽपि पौरुषो प्रहर इत्यर्थः, तां प्रत्याख्याति पौरुषीप्रत्याख्यानं करोतीत्यर्थः । कथम् ? । चतुर्विधमशन पान खाद्य स्वाद्यलक्षणं 'व्युत्सृजति ' इत्युत्तरेण योगः । अत्र षडाकाराः । प्रथमौ द्दौ पूर्ववत् । अन्यत्र प्रच्छन्नकालात्, दिग्मोहात्, साधुवचनात्, सर्व समाधिप्रत्ययाकाराञ्च । प्रच्छन्नता च कालस्य, यदा मेघेन रजसा गिरिणा वान्तरितत्वात् सूरो न दृश्यते, तत्र पौरुषों पूर्ण ज्ञात्वा भुञ्जानस्यापूर्णायामपि तस्यां न भङ्गः ; ज्ञात्वा त्वर्धभुक्तेनापि तथैव स्थातव्यं यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यम् ; न पूर्णेति ज्ञाते तु भुञ्जानस्य भङ्ग एव । दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति तदाऽपूर्णायामपि पौरुष्यां मोहाद् भुञ्जानस्य न भङ्गः, मोहविगमे तु पूर्ववदर्धभुक्तेनापि स्थातव्यम् ; निरपेक्षतया भुञ्जानस्य भङ्ग एवेति । साधुवचनं 'उदुघाटा पौरुषी' इत्यादिकं विभ्रमकारणम्, तत् श्रुत्वा भुञ्जानस्य न भङ्गः, भुञ्जानेन तु ज्ञाते, अन्येन वा कथिते पूर्ववत् तथैव स्थातव्यम् । तथा, कृतपौरुषो प्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखतया संजातयोरार्त - रौद्रध्यानयोः सर्वथा निरास: सर्वसमाधि