SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ हतीयः प्रकाशः । ६८८ त्वादस्य । पौरुष्या हि षडाकाराः, तदम्मिन् प्रत्याख्याने प्राकारहयवति स्वल्प एव कालोऽवशिष्यते । स च नमस्कारण सहितः, पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात् ; सत्यपि नमस्कारपाठे मुहूर्ताभ्यन्तरे प्रत्याख्यानभङ्गात् । तत् सिद्धमेतत्-मुहूर्तमानकालं नमस्कारसहितं प्रत्याख्यानमिति। अथ प्रथम एव मुहर्त इति कुतो लभ्यते ?। सूत्रप्रामाण्यात्, पौरुषीवत्। सूत्रं चेदम् : उग्गए सूरे नमोकारसहिश्र पञ्चक्खाइ चउब्विहं पि आहारं असणं पाणं खाइमं साइमं अमत्थणाभोगेणं सहसागारेणं वोसिरइ । व्याख्या-उगते सूरे सूर्योगमादारभ्येत्त्यर्थः, नमस्कारेण परमेष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं प्रत्याख्याति, "सर्वे धातवः करोत्यर्थेन व्याप्ताः” इतिन्यायाद नमस्कारण सहितं प्रत्याख्यानं करोति । इदं गुरोरनुवादभङ्गया वचनम् । शिष्यस्तु 'प्रत्याख्यामि' इत्येतदाह । एवं 'व्युत्सृजति' इत्यत्रापि वाच्यम् । कथम् ? । चतुविधमिति, न पुनरेकविधादिकम्, आहारमभ्यवहार्य 'व्युत्सृजति' इत्युत्तरेण योगः। इदं चतुर्विधाहारस्यैव भवतीति संप्रदायः, रात्रिभोजनव्रततोरण प्रायत्वादस्य । अशनमित्याद्याहारचातुर्विध्यकीर्तनम्। अशनादय आहारा: पूर्वं व्याख्याताः। पत्र नियमभङ्गभयादाकारावाह-असत्यणाभोगणं सहसागारणं, अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात्, सहसाकाराच्च ; एतौ वर्जयिवेत्यर्थः । तत्रानाभोगोऽत्यन्त विस्मृतिः। सहसाकारोऽतिप्रहतयोगानिवर्तनम् । व्युत्सृजति परिहरति ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy