________________
योगशास्त्रे
निष्ठीवनं वपुःस्पर्शः प्रपञ्चबहुला स्थितिः । सूत्रोदितविधेयूँनं वयोऽपेक्षाविवर्जनम् ॥१॥ कालापक्षाव्यतिक्रान्तिाक्षेपासक्तचित्तता। लोभाकुलितचित्तत्वं पापकार्योद्यमः परः ॥२॥
कत्याक्तत्यविमूढत्वं पट्टिकाद्युपरि स्थितिः । इति । कायोत्सर्गस्यापि फलं निर्जरैव ; यदाहु:
'काउस्मग्गे जह संठिअस्स भज्जति अंगुवंगाई ।
इय भिंदंति सुविहिया अट्ठविहं कम्मसंघायं ॥१॥ कायोत्सर्गसूत्रार्थः प्राग् व्याख्यात एव ॥ __अथ प्रत्याख्यानम्-प्रति प्रवृत्तिप्रतिकूलतया आ मर्यादया ख्यानं प्रकथनं प्रत्याख्यानम् । तच्च देधा-मूलगुणरूपमुत्तरगुणरूपं च। मूलगुणा यतीनां महाव्रतानि, श्रावकाणामणुव्रतानि ; उत्तरगुणास्तु यतीनां पिण्डविशुद्ध्यादयः, श्रावकाणां तु गुणव्रत शिक्षाव्रतानि। मूलगुणानां तु प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, उत्तरगुणानां तु पिण्ड विशु यादीनां दिग्वतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात् । तत्र स्वयं कतप्रत्याख्यान: काले विनयपूर्वकं सम्यगुपयुक्तो गुरुवचनमनुच्चरन् स्वयं जानन् जस्यैव गुरोः पार्थे प्रत्याख्यानं करोति। जत्वे चतुर्भङ्गी। योजत्वे प्रथमो भङ्गः शुद्धः ।१। गुरोजत्वे शिष्यस्याज्ञत्वे द्वितीयः। तत्र तत्कालं शिष्यं संक्षेपत: प्रबोध्य यदा गुरु: प्रत्याख्यानं कारयति
( १ ) कार्यात्मर्गे यथा संस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि।
एवं भिन्दन्ति सुविहिता अष्टविधं कम