________________
६८४
योगशास्त्रे तत्र चेष्टाकायोत्सर्गोऽष्ट-पञ्चविंशति-सप्तविंशति-त्रिशती-पञ्चशती-अष्टोत्तर-सहस्रोच्छामान् यावद् भवति, अभिभवकायोत्सर्गस्तु मुहूर्तादारभ्य संवत्सरं यावद बाहुबलेरिव भवति । स च कायोत्सर्ग उच्छ्रित निषण-शयितभेदेन त्रेधा। एकैकश्चतुर्धा-उच्छ्रितोच्छ्रितो द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावत उच्छ्रितो धर्मध्यानशुक्लध्याने इति प्रथमः । तथा, द्रव्यत उच्छ्रित ऊर्ध्वस्थानं भावतोऽनुच्छ्रितः कृष्णादिलेश्यापरिणाम इति हितीयः । द्रव्यतो नोच्छितो नोर्ध्वस्थानं भावत उच्छ्रितो धर्मध्यान-शुक्लध्याने इति तृतीयः। न द्रव्यतो नापि भावत उच्छ्रित इति चतुर्थः । एवं निषस्स-शयितयोरपि चतुर्भङ्गी वाच्या ।
दोषरहितश्च कायोत्सर्गः कार्यः। दोषाश्चैकविंशति:;आकञ्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः ।। खरवातप्रकम्मिताया लताया इव कम्पनं लतादोषः ।२। स्तम्भमवष्टभ्य स्थानं स्तम्भदोष: ।३। कुद्यमवष्टभ्य स्थानं कुड्यदोषः ।४। माले शिरोऽवष्टभ्य स्थानं मालदोषः ।५। हस्ती गुह्यादेश स्थापयित्वा शवर्या इव स्थानं शबरीदोषः ।६। शिरोऽवनम्य कुलवध्वा इव स्थानं वधूदोषः ।। निगडितस्येव विवृतपादस्य मिलितपादस्य वा स्थानं निगडदोषः ।। नाभेरुपर्याजानु चोलपट्टकं निबध्य स्थानं लम्बोत्तरदोषः ।। दंशादिवारणार्थमज्ञानाद् वा स्तने चोलपट्टकं निबध्य स्थानं स्तनदोषः ; 'धात्रीवद् बालार्थं स्तनावुनमय स्थानं वा' इत्येके ।१०। पार्णी मोलयित्वाऽग्रचरणौ विस्तार्य, अङ्गुष्ठौ वा मौलयित्वा पार्णी विस्तार्य स्थानं शकटो