________________
टतीय: प्रकाशः ।
६८५ त्वात्, अहं न याणामि अहं पुनर्न जानामि, मूढत्वात् ; तथा 'ययं न जानौथ प्रच्छ वकृतत्वादिना, अहं जानामि, स्वयं कृतत्वात् ; तथा, यूयं न जानीथ, परण कृतत्वादिना, अहं न जानामि, विस्मरणादिना ; तथा, यूयमपि जानीथ. अहमपि जानामि, दयोः प्रत्यक्षत्वात्' एतदपि द्रष्टव्यम् ; तस्स तस्य षष्ठीसप्तम्योरभेदात् तस्मिन्नप्रौतिकविषये विनयपरिहीणविषये च मिच्छा मि दुक्कडं मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुपात्तसूचक खदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति पारिभाषिकं वाक्यं प्रयच्छामीति शेषः ; अथवा, तस्येति विभक्तिपरिणामात् तदप्रोतिकं विनयपरिहीनं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्तते मे मम ; तथा, दुष्कृतं पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमण. मिति। वन्दनपूर्वके चालोचनक्षमणे भवत इति कृत्वा वन्दनकानन्तरं ते व्याख्याते, अन्यथा प्रतिक्रमण तयोरवसर: ; वन्दन कस्य च फलं कर्मनिर्जरा, यदाहुः
'वंदण एणं भंते ! जीवे किं अज्जिणइ ? । गोमा ! अट्ठ कम्मपयडीओ निविडबंधणबद्धाओ सिढिलबंधण बडाभो करेइ, चिरकालठिइआओ अप्प कालठिइआओ करेइ, तिब्वाणुभावाप्रो मंदाणुभावाओ करेइ, बहुपएसग्गाओ अप्पपएसग्गाओ करेइ, प्रणाअं च णं अणवदग्गं संसारकंतारं नो परिअट्टइ। तथा,
(१) वन्दन के न भगवन् ! जीवः किमर्जयति ? । गौतम ! अष्ट कर्मप्रकृतीनिबि. डबन्धनबद्ध्वाः शिथिलबन्धनबहाः करोति, चिरकालस्थितिका अल्पकालस्थितिकाः करोति, तीव्रानुभावा मन्दानुभाबाः करोति, बहुपदेशिका अल्प प्रदेशिकाः
करोति अनादिकं चानन्तं संसारकान्तारं नो पर्यटति ।