________________
६८४
योगशास्त्रे विधिवत् पञ्चभिरङ्गैः स्पृष्टधरणीतलो मुखवस्त्रिकया स्थगितवदनदेश इदमाह-'जे किंचि अपत्तियं परपत्तिअं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्म विणयपरिहोणं सुहुमं वा बायरं वा तुमे जाणह अहं न याणामि तस्म मिच्छा मि दुक्कडं ।
व्याख्या-जं किंचि यत् किञ्चित् सामान्यतो निरबशेषं वा, अपत्तियं आर्ष त्वादप्रीतिकमप्रीतिमात्रम्, परपत्तिअं प्रकष्टमप्रीतिकं परप्रत्ययं वा परहेतुकम्, उपलक्षणत्वादस्यात्मप्रत्ययं चेति द्रष्टव्यम्, युपहिषये मम जातं युष्माभिर्वा मम जनितमिति वाक्यशषः, 'तस्म मिच्छा मि' ईत्युत्तरेण संबन्धः । तथा, भत्ते भक्ते भोजनविषये, पाण पानविषये, विणए विनयेऽभ्युत्थानादिरूपे, वेावच्चे वैयापृत्ये वैयावृत्त्ये वा औषधपध्यादिनाऽवष्टम्भरूपे, आलावे आलापे मक्कज्जल्परूपे, संलावे संलापे मिथःकथारूपे, उच्चामणे गुरोरासनादुच्चैरासने, समासणे गुर्वासनेन तुल्ये आसने, अंतर- . भासाए अन्तर्भाषायां गुरोर्भाषमाणस्य विचालभाषणरूपायाम्, उवरिभासाए उपरिभाषायां गुरोर्भाषणानन्तरमेव विशेषभाषणरूपायाम् ; एषु भक्तादिषु जं किंचि यत् किञ्चित् समस्तं सामान्यतो वा, मझ मम, विणयपरिहोणं विनयपरिहीनं शिक्षावियुक्तं 'संजातम्' इति शेषः । विनयपरिहीनस्यैव हैविध्यमाह'सुहुमं वा बायरं वा' मूक्ष्ममल्पप्रायश्चित्त विशोध्यम्, बादरं बृहत्पायश्चित्तविशोध्यम् ; वाशब्दो योरपि मिथ्यादुष्कृतविषयत्वतुल्यतोद्भावनाौँ, तुम्भे जानहेति यूयं जानीथ, सकलभाववेदक