________________
टतीय: प्रकाशः।
६८३ दुश्चेष्टितोद्भवस्येत्यर्थः, अनेन कायिकमाह ; अस्यातिचारस्य किमित्याह-इच्छाकारेण संदिसहेति, आत्मीयेच्छया मम प्रतिक्रमणाज्ञां प्रयच्छत, इत्युक्त्वा तूष्णीको गुरुमुखं प्रेक्षमाण प्रास्ते । ततो गुरुराह-'पडिक्कमह' प्रतिक्रामत । तत: शिष्यः प्राह'इच्छं' इच्छाम्येतद् भगवदचः, तस्म तस्य देवसिकातिचारस्य मिच्छा मि दुक्कडं आत्मीयं दुष्कृतं मिथ्येति जुगुप्स इत्यर्थः । तथा, हितीयच्छन्दनकावग्रहान्तःस्थित एव विनेयोऽर्धावनतकायः वापराधक्षामणां चिकीर्षुर्गुरुं प्रतीदमाह-'इच्छाकारेण संदिसह' इति, इच्छाकारेण स्वकीयाभिलाषेण न पुनर्बलाभियोगादिना, संदिशत आनां प्रयच्छत यूयम् । आज्ञादानस्यैव विषयमुपदर्शयन्त्रिदमाह-'अब्भुडिओ अम्हि अभिंतरदेवसिअं खाममि' अभ्यु स्थितोऽस्मि प्रारब्धोऽस्मि अहम्, अनेनाभिलाषमात्रस्य व्यपोहेन चमणाक्रियाया: प्रारम्भमाह–'अविभंतरदेवसिअं' इति दिवसाभ्यन्तरसंभवम् 'अतीचारम्' इति गम्यते, क्षमयामि मर्षयामि, इत्येका वाचना। अन्ये त्वेवं पठन्ति–'इच्छामि खमासमणो अभुटिओ अम्हि अभिंतरदेवसिअं खामउं' इति, इच्छामि अभिलषामि 'क्षमयितुम्' इति योग:, हे क्षमाश्रमण ! न केवलमिच्छामि, किन्तु 'अन्भुडिओ अम्हि' इत्यादि पूर्ववदेव । एवं स्वाभिप्रायं प्रकाश्य तृष्णीमास्ते यावद् गुरुराह–'खामह' इति क्षमयस्वेत्यर्थः । ततः स गुरुवचनं बहु मन्यमान आह—'इच्छं खामेमि' इति, इच्छं इच्छामि भगवदाजाम, खाममि क्षमयामि च स्वापराधम् । अनेन क्षमणक्रियायाः प्रारम्भमाह। ततो