________________
६८२
योगशास्त्रे
गुत्तीणं तिमृणां गुप्तीनां यत् खण्डितम्' इत्यादिना सर्वत्र योगः, मनोवाक्कायगोपनामिकास्तिस्रो गुप्तयो व्याख्याताः, तासां चा श्रद्धानविपरीतप्ररूपणाभ्यां खण्डना विराधना च, चतुर्णां क्रोधमानमायालोभलक्षणानां कषायाणां प्रतिषिद्धानां करणेनाश्रद्धानविपरीतप्ररूपणाभ्यां च ; पञ्चानामणुव्रतानां त्रयाणां गुणव्रतानां चतुणां शिक्षावतानामुक्तस्वरूपाणाम्, अणुव्रतादिमीलनेन हादशविधस्य श्रावकधर्मस्य यत् खण्डितं देशतो भग्नम्, यद विराधितं सुतरां भग्नं न पुनरे कान्ततोऽभावमापादितम्, तस्स मिच्छा मि दुक्कडं तस्य दैवसिकाद्यतिचारस्य ज्ञानादिगोचरस्य, तथा गुप्तौनां, कषायाणां द्वादश विधवावकधर्मस्य च यत् खण्डनं विराधनं चातिचाररूपं तस्य मिथ्येति प्रतिक्रमामि दुष्कृतमेतदकर्तव्यमिदं ममत्यर्थः।
अत्रान्तरे विनेयः पुनरप्यर्धावनतकाय: प्रवर्धमानसंवेगो मायामदविप्रमुक्त आत्मनः सर्वातिचारविशुद्धार्थं सूत्रमिदं पठति'सव्वस्म वि देवसिय दुचिंतिय दुब्भासिय दुच्चिट्ठिय इच्छाकारण संदिसह ।' सर्वाण्यपि लुप्तषष्ठीकानि पदानि । ततोऽयमर्थःसर्वस्यापि दैवसिकस्याणुव्रतादिविषये प्रतिषिद्धाचरणादिना जातस्या तिचारस्येति गम्यते ; पुनः कीदृशस्य, दुश्चिन्तितस्य दुष्टमार्तरौद्रध्यानतया चिन्तितं यत्र स तथा तस्य दुश्चिन्तितोद्भवस्येत्यर्थः ; अनेन मानसमतीचारमाह ; दुष्टं मावद्यवाग्रूपं भाषितं यत्र तत् तथा तस्य दुर्भाषितोत्पन्नस्येत्यर्थः, अनेन वाचिकं सूचयति ; दुष्टं प्रतिषिद्ध धावनवलानादिकायक्रियारूपं चेष्टितं यत्र तत् तथा तस्य