________________
तृतीयः प्रकाशः ।
६८१ कर्तव्यः, न करणीयोऽकरणीयः, हेतुहेतुमद्भावश्चात्र यत एवोत्सूत्रो ऽत एवोन्मार्ग इत्यादि, उक्तस्तावत् कायिको वाचिकश्च । अधुना मानसिकमाह-दुज्झाओ दुष्टो ध्यातो दुर्ध्यात एकाग्रचित्ततयाऽऽतरौट्रलक्षणः, दुविचिंतिओ दुष्टो विचिन्तितो दुर्विचिन्तितः, अशुभ एव चलचित्ततया 'जं थिरमजझवसाणं तं भाणं जं चलं तयं चित्तं' इति वचनात्, यत एवेत्थंभूतस्तत एव अणायारो पाचरणीयः श्रावकाणामाचार:, न आचारोऽनाचारः, यत एवानाचरणीयोऽत एव अणिच्छियव्वो अनेष्टव्यः मनागपि मनसापि न एष्टव्य आस्तां तावत् कर्तव्यः, यत एवेत्थंभूतोऽत एव असावगपाउग्गो अश्रावकप्रायोग्य:-अभ्युपेतसम्यक्त्व: प्रतिपत्राणुव्रतश्च प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारों शृणोतौति श्रावकस्तस्य प्रायोग्य उचितः श्रावकप्रायोग्यः, न तथा, श्रावकानुचित इत्यर्थः । अयं चातिचारः क विषये भवतीत्याह‘णाणे दंसणे चरित्ताचरित्ते' इति, ज्ञानविषये, दर्शनविषये, स्थूलसावद्ययोगनिवृत्तिभावाञ्चारित्रं च सूक्ष्मसावद्ययोगनिवृत्त्वभावादचारित्रं च चारित्राचारित्रं तस्मिन् देशविरतिविषये इत्यर्थः । अधुना भेदेन व्याचष्टे-सुए श्रुतविषये, श्रुतग्रहणं मत्यादिज्ञानोपलक्षणम्, सत्र विपरीतप्ररूपणा, अकालस्वाध्यायश्चातिचारः, सामाइए सामायिक विषये, सामायिकग्रहणात् सम्यक्त्वसामायिकदेशविरतिसामायिकयोग्रहणम् । तत्र सम्य वा सामायिकातिचारः शङ्खादिः। देशविरतिसामायिकातिचारं तु भेदेनाह–तिण्हं
(१) यत् स्थिरमध्यवसानं तद् ध्यानं यच्चलं तञ्चित्तम् ।