________________
६८०
योगशास्त्रे
दैवसिकं मध्याह्नादारभ्य निशीथं यावदु भवति, रात्रिकं निशोथादारभ्य मध्यानं यावदु भवति, पाक्षिकचातुर्मासिक सांवत्सरि काणि पक्षाद्यन्ते भवन्ति । अत्रान्तरे 'आलोअह' इति गुरुवचनमाकर्ण्य एतदेव शिष्यः समर्थयत्राह - 'इच्छं श्रालोएमि' इच्छाम्यभ्युपगच्छामि गुरुवच:, आलोचयामि पूर्वमभ्युपगतमर्थं क्रियया प्रकाशयामीति । इत्थं प्रस्तावनामभिधायालोचनामेव साक्षात्कारेणाह — 'जो मे देवसिओ अइआरो कओ काइओ वाइ श्री माणसित्रो उस्मुत्तो उम्मग्गो अकप्पो अकर णिज्जो दुज्झाओ दुव्विचिंतिम्रो अणायारो अणिच्छियव्वो असावगपाउग्गी नाणे दंसणे चरित्ताचरिते सुए सामाइए तिरुहं गुत्तीणं चउण्हं कसायां पंचग्रहमणुव्वयाणं तिगृहं गुणव्वयाणं चउरहं सिक्खा वयाचं बारसविहस्स सावगधम्मस्स जं खंडि जं विराहित्रं तस्म मिच्छामि दुक्कडं' |
——
व्याख्या - यो मया दिवसे भवो देवसिकोऽतिचारोऽतिक्रमः कृतो निर्वर्तितः, स पुनरतिचार उपाधिभेदेनानेकधा भवति, अत एवाह –‘काइओ' कायः प्रयोजनं प्रयोजकोऽस्यातिचारस्येति कायिकः, एवं वाइओ वाक् प्रयोजनमस्य वाचिकः, एवं मनः प्रयोजनमस्येति मानसिकः, उस्मुत्तो सूत्रादुत्कान्त उल्लूत्र: सूत्रमतिक्रम्य कृत इत्यर्थः, उम्मग्गो मार्गः क्षायोपशमिको भावस्तमतिक्रान्त उन्मार्गः क्षायोपशमिकभावत्यागेनौदयिकभावसंक्रमः कृत इत्यर्थः, अकप्पो कल्पो न्यायो विधिराचारश्चरण करणव्यापार `इति यावत्, न कल्पोऽकल्पोऽतद्रूप इत्यर्थः करणीयः सामान्येन
"