________________
दृतीयः प्रकाशः । 'तज्जाएणं पडिहणइ बेइ बहु तह कहंतर वयद । एवमिमं ति न सरसि नो सुमणे भिंदई परिसं ॥४॥ हिंदड कहं तहाणुट्ठियाइ परिसाइ कहइ सविसेसं । गुरुपुरो विनिसीयइ ठाइ समुच्चासणे सेहो ॥५॥ संघट्टइ पाएणं सेज्जासंथारयं गुरुस्म तहा । - तत्थेव ठाइ निसियइ सुबइ अवसेहोत्ति तेत्तीसं ॥६॥
दह यद्यपि यतिरेव वन्दनकर्ताक्तो न श्रावकः, तथापि यते: कर्तुर्भणनात् श्रावकोऽपि कर्ता विज्ञेयः, प्रायेण यतिक्रियानुसारेणैव श्रावक क्रियाप्रवृत्तः ; श्रूयते च कृष्णवासुदेवेनाष्टादशानां यतिसहस्राणां हादशावर्तवन्दनमदायि, इत्याशातना अपि यत्यनुसारेण यथासंभवं श्रावकस्य वाच्याः। एवं वन्दनकं दत्त्वाऽवग्रहमध्यस्थित एव विनेयोऽतिचारालोचनं कर्तुकामः किञ्चिदवनतकायो गुरुं प्रतीदमाह-'इच्छाकारण संदिसह देवसियं आलोएमि' इति। इच्छाकारणा निजेच्छया, संदिशत प्राज्ञां ददत, देवसिकं दिवसभवम् 'चतीचारम्' इति गम्यम् ; एवं रात्रिकपाक्षिकादिकमपि द्रष्टव्यम्, आलोचयामि मर्यादया सामस्त्येन वा प्रकाशयामि। इह च दैवसिकादीनामयं कालनियमः-यथा
( १ ) तज्जातेन प्रतिन्ति ब्रवीति बहु तथा कथान्तरे वदति ।
एवमिदमिति न स्मरसि नो सौमनस्यं भिनत्ति परिषदम् ॥४॥ छिनत्ति कथा तथानुस्थितायां परिषदि कथयति सविशेषम् । गुरुपुरतो विनिषीदति तिष्ठति समोच्चामने शैक्षः ॥५॥ संघट्टयति पादेन शय्यासंस्तारकं गुरोस्तथा । तत्रैव तिष्ठति निषीदति शेतेऽपक्ष इति त्रयस्त्रिंशत् ॥६॥