________________
तृतीयः प्रकाशः।
द्रव्याणां स्वयमुपभोग: ।१७। रात्रौ 'भार्याः ! कः स्वपिति जागर्ति वा ?' इति गुरोः पृच्छतोऽपि जाग्रताऽपि शिष्येणाप्रतिश्रवणम् । १८। शेषकालेऽपि गुरौ व्याहरति यत्र तत्र स्थितेन शयितन वा शिष्येण प्रतिवचनदानम् । १८ । आहतेनासनं शयनं वा त्यता संनिहितीभूय 'मस्तकेन वन्दे' इति वदता गुरुवचनं श्रोतव्यम्, तदकुर्वत पाशातना । २० । गुरुणा आहतस्य शिष्यस्य किमिति वचनम्, भणितव्यं च मस्तकेन वन्दे इति । २१ । गुरुं प्रति शिष्यस्य त्वंकारः । २२ । गुरुणा ग्लानादिवैयावृत्त्यादिहेतोः 'इदं कुरु' इत्यादिष्टः ‘त्वमेव किं न कुरुषे' इति 'त्वमलसः' इत्युक्ते 'त्वमप्य लसः' इति च शिष्यस्य तज्जातवचनम् । २३ । · गुरोः पुरतो बहोः कर्कशस्योच्चैःस्वरस्य च शिष्येण वदनम् । २४ ।
गुरौ कथां कथयति ‘एवमेतत्' इत्यन्तराले शिष्यस्य वचनम् । २५ । गुरौ धर्मकथां कथयति 'न स्मरसि त्वमेतमर्थम्, नायमर्थः संभवति' इति शिष्यस्य वचनम् । २६ । गुरौ धर्म कथयति सौमनस्यरहितस्य गुरूतमननुमोदमानस्य 'साधूक्तं भवद्भिः' इत्यप्रशंसतः शिष्यस्योपहतमनस्त्वम् । २७। गुरौ धर्म कथयति 'इयं भिक्षावेला सूत्रपौरुषीवेला, भोजनवेला' इत्यादिना शिष्येण पर्षद्भेदनम् । २८ । गुरौ धर्मकथां कथयति 'अहं कथयिष्यामि' इति शिष्येण कथाच्छेदनम् । २८। तथा, प्राचार्येण धर्मकथायां कतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण मविशेषं धर्मकथनम् । ३० । गुरोः पुरत उच्चासने समासने वा शिष्यस्योपवेशनम् ।३१। गुरोः शय्यासंस्तारकादिकस्य पादेन