________________
योगशास्त्रे
एवमहाजाएगं तिगुत्तिसहिअं च हुंति चत्तारि ।
सेसेमुं खित्तेमुं पणवीमावस्मया हुंति ॥३०॥ 'तित्तीसनयराए' इत्युक्त मिति, त्रयस्त्रिंशदाशातना विवेच्यन्तेगुरोः पुरतो गमनं शिष्यस्य निष्कारणं विनयभङ्ग हेतुत्वादाशातना, मार्गदर्शनादिकारण तु न दोषः, गुरोः पार्खाभ्यामपि गमनम्, पृष्ठतोऽप्यासनगमनम्, निःश्वासक्षुतश्लेष्मपातादिदोषप्रसङ्गात् ; ततश्च यावता भूभागेन गच्छत अाशातना न भवति तावता गन्तव्यम् ।१।२।३। एवं पुरतः, पाखंतः, पृष्ठ तश्च स्थानम् । ४।५।६। तथा, पुरतः पार्वत: पृष्ठतो वा निषदनम् । ७/८८ । आचार्येण सहोच्चारभूमिं गतस्याचार्यात् प्रथममेवाचमनम् ।१०। गुरोरालापनीयस्य कस्यचिच्छिष्येण प्रथममालपनम् ।११। शिष्यस्याचार्येण सह बहिर्गतस्य पुनर्निवृत्तस्याचार्यात् प्रथममेव गमनागमनालोचनम् । १२ । भिक्षामानीय शिष्येण गुरोः पूर्व शैक्षस्य कस्यचित् पुरत अालोच्य पश्चाद् गुरोरालोचनम् । १३ । भिक्षामानीय प्रथमं शैक्षस्य कस्यचिदुपदर्य गुरोर्दर्शनम् । १४ । भिक्षामानीय गुरुमनापृच्च्य शैक्षाणां यथारुचि प्रभूतभेक्ष्यदानम् ।१५॥ भिक्षामानीय शैक्षं कञ्चन निमन्त्रा पश्चाद् गुरोरुपनिमन्त्रणम् । १६ । शिष्येण भिक्षामानीयाचार्याय यत् किञ्चिद दत्त्वा स्निग्धमधुरमनोज्ञाहारशाकादीनां वर्णगन्धरसस्पर्शवतां
(१) एवं यथाजातैकं विगुप्तिसहितं च भवन्ति चत्वारि ।
शेषेषु नेषु पञ्चविंशतिरावस्यका भवन्ति ॥३०॥