________________
योगशास्त्रे
दुष्कृता मनोदुष्कृता तया प्रहेषनिमित्तयेत्यर्थ. ; वाग्दुष्कृतया असभ्यपरुषादिवचननिमित्तया, कायदुष्कतया प्रासन-गमनस्थानादिनिमित्तया, क्रोधया क्रोधयुक्तया, मानया मानयुक्तया, मायया मायायुक्ताया, लोभया लोभयुक्ताया ; अयं भावः-क्रोधा. धनुगतेन या काचिद् विनयभ्रंशादिलक्षणाऽऽशातना कता तयेति। एवं दैव सिक्याशातनोक्ता। अधुना पक्ष चतुर्माससंवसरकाल कता इहभवान्यभवगतातोतानागतकाल कता च या पाशातना तप्याः संग्रहार्थमाह-'सब्वकालियाए' मर्व कालेषु भवा सार्वकालिको तया । अनागतकाले कथमाशातनासंभव: ? इति चेत् । उच्यते,—'वोऽस्य गुरोरिदमिदं वानिष्टं कर्तास्मि' इति चिन्तया। इत्थं भवान्तरेऽपि तहधादिनिदान करणे न . संभवत्येव । सर्व एव मिथ्योपचाग मास्थानगर्भाक्रियाविशेषा यस्यां मा सवमिथ्योपचारा तया। सर्वे धर्मा अष्टौ प्रवचनमातरः सामान्येन करणीयच्यापारा वा तेषामतिक्रमणं लग्नं विराधनं यस्यां सा सर्वधर्मातिक्रमणा। एवंभूतयाऽऽशातनया यो मयातिचारोऽपराधः कतो विहितस्तम्यातिचारस्य हे क्षमाश्रमण ! युमत्साक्षिकं प्रतिमामि अपुन:करणेन निवर्ते ; तथा, दुष्ट कर्मकारिणं निन्दाम्यात्मानं भवोहिग्नेन प्रशान्तेन चेतसा ; तथा, गहें प्रात्मानं दुष्टकर्मकारिणं युभ माक्षिकम् ; व्युत्सृजाम्यात्मानं दुष्ट कर्मकारिणं तदनुमतित्यागेन। एवं तत्रस्थ एवार्धावनतकायः पुनरेवं भणति-'इच्छामि खमासमणो' इत्यारम्य यावद् 'वोसिरामि' इति ; परमयं विशेषः-अवग्रहाद बहिनिष्क्रमणरहित