________________
टतीयः प्रकाशः।
भवतां 'शरीरम्' इति गम्यम। एवं परया भक्त्या पृच्छता विनयेन विनय: कतो भवति। अत्रान्तरे गुरुराह-एवं आम यापनीयं च मे इत्यर्थः । इदानीमपराधक्षामणां कुर्वन् रजोहरणोपरिन्यस्तहस्तमस्तको विनेय इदमाह-'खाममि खमासमो ! देवसियं वरक्कम' क्षमयामि क्षमाश्रमण ! दिवसे भवो देवसिकस्तं व्यतिक्रममवश्यकरणीययोगविराधनारूपमपराधम् । अत्रान्तरे च गुरुर्वदति- 'अहमवि खाममि' अहमपि क्षमयामि देवसिकं खं व्यतिक्रमं प्रमादोद्भवम् । ततो विनेयः प्रणमन् क्षमयित्वा 'प्रावसिाए' इत्यादि जो मे अइआरो कओ' इत्यन्तं स्वकीयातिचारनिवेदनपरमालोचनाह प्रायश्चित्तसूचकं सूत्रं 'तस्म खमासमणो पडिकमामि' इत्यादिकं च प्रतिक्रमणाहप्रायश्चित्ताभिधायकं पुनरकरणे नाभ्यु स्थित प्रात्मानं शोधयिष्यामीति बुद्याऽवग्रहाद नि.मृत्य पठति,—अवश्यं कर्तव्येषु चरण करणेषु भवा क्रिया आवश्यको तया आसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्मात् प्रतिक्रमामि निवर्ते ; इत्थं सामान्येनाभिधाय विशेषेणाभिधत्ते-क्षमाश्रमणानां संबन्धिन्या देवसिक्या ज्ञानाद्यायस्य शातना खगड ना आशातना तया, किंविशिष्टया, त्रयस्त्रिंशदन्यतरया त्रयस्त्रिंशसंख्यानामाशातनानामन्यतरया कयाचित्, उपलक्षणत्वाद् हाभ्यां तिसृभिरपि, यतो दिवसमध्ये सर्वा अपि संभवन्ति ; ताश्च वक्ष्यन्ते ; यत् किञ्चित् कदालम्बनमाश्रित्य मिय्यया मिथ्यायुक्तेन कृतयेत्यर्थः ; मिथ्याभावोऽत्रास्तोत्यभ्रादित्वादकारी मिथ्या, एवं क्रोधयेत्यादावपि ; मनसा