________________
६६८ . योगशास्त्रे येषां तेऽल्पलान्तास्तेषामल्पवेदनानामित्यर्थः, बहुसुभेण बहु च तच्छुभं च बहुशुभं तेन बहुसुखेनेत्यर्थः, भे भवताम्, दिवसो वइकंतो दिवसो व्यतिक्रान्तः । अत्र दिवसग्रहणं रात्रिपक्षादीनामुपलक्षणं द्रष्टव्यम् । एवं योजित करसंपुटं गुरोः प्रतिवचनमोक्षमाणं शिष्यं प्रत्याह गुरुः–'तह त्ति' तथेति प्रतिश्रवण, प्रत्र तथाकारः यथा भवान् ब्रवीति तथेत्यर्थः । एवं तावदाचार्यशरीरवार्ता पृष्टा । अथ तपो नियमविषयां वाती पृच्छन्नाह-जत्ता भे, 'ज' इत्यनुदात्तस्वरेणोच्चारयन् रजोहरणं कराभ्यां स्पष्ट्वा रजोहरणललाटयोरन्तराले 'त्ता' इति स्वरितन स्वरेणोच्चार्य, उदात्तस्वरेण 'भ' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिललाटं स्पृशति, यात्रा संयमतपोनियमादिलक्षणा क्षायिकक्षायोपशमिकौपशमिकभावलक्षणा वा भे भवताम् ‘उत्सर्पति' इति गम्यते । अत्रान्तरे गुरोः प्रति. वचनम् 'तुभं पि वट्टई' मम तावदुत्सर्पति, भवतोऽप्युत्सर्पति ।
अधुना नियन्त्रणीयपदार्थविषयां वार्ता पृच्छन् पुनरप्याह विनेयः-जवणिज्जं च भे, 'ज' इत्यनुदात्तस्वरेण रजोहरणं स्पृष्ट्वा 'व' इति स्वरितवरेण रजोहरण ललाटयोरन्तराले उच्चार्य णिशब्दमुदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं म्प्रशति, न पुन: प्रतिवचनं प्रतीक्षते, अर्धसमाप्तत्वात् प्रश्नस्य ; ततो 'ज' इत्यनुदात्तस्वरेणोचार्य कराभ्यां रजोहरणं स्पृशन् पुनरेव रजोहरणललाटान्तराले 'च' इति स्वरितस्वरेणोच्चार्य 'भ' इत्युदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृष्ट्वा प्रतिवचनं शुश्रूषमाणस्तथैवास्ते ; जवणिज्जं च यापनीयमिन्द्रियनोइन्द्रियोपशमादिना प्रकारेणाबाधितं च मे