________________
तृतीयः प्रकाशः ।
६६७
ततो गुरुर्भणति – अनुजानामि । ततः शिष्यो भुवं प्रमृज्य कि कुर्वन् गुर्ववग्रहे प्रविशति । निसोहोति निषिद्धसर्वाशभव्यापारः सन् प्रविशाम्यहमित्यर्थः । ततः संदंशप्रमार्जनपूर्वक - मुपविशति । गुरुपादान्तिके च भूमौ निधाय रजोहरणं तन्मध्ये च गुरुचरणयुगलं संस्थाप्य मुखवस्त्रिकया वामकर्णादारभ्य वामहस्तेन दक्षिणकर्णं यावल्ललाटमविच्छिन्नं च वामं जानु त्रि: ' प्रमृज्य मुखवस्त्रिकां वामजानूपरि स्थापयति । ततोऽकारोचारणसमकालं रजोहरणं कराभ्यां संस्पृश्य होकारोच्चारणसमकालं ललाटं स्पृशति । ततः काकारोच्चारणसमकालं रजोहरणं स्पृष्ट्वा यंकारोच्चारणसमकालं ललाटं स्पृशति । पुनश्च 'काका रोच्चारण समकालं रजोहरणं स्पृष्ट्वा यकारोच्चारणसमकालं ललाटं स्पृति । ततः संफासमिति वदन् शिरसा पाणिभ्यां च रजोहरणं स्पृशति । ततः शिरसि बद्धाञ्जलिः 'खमगिज्जो भे किलामो' इत्यारभ्य 'दिवसो वदक्कतो' यावद् गुरुमुखे निविष्टदृष्टिः पठति । अधस्तात् कायोऽधः कायः पादलक्षणस्तं प्रति कायेन निजदेहेन हस्तललाटलक्षणेन संस्पर्श आमर्शस्तं 'करोमि' इति गम्यते । एतदपि ममानुजानीध्वमित्यनेन योगः ! आचार्यमननुज्ञाप्य हि संस्पर्शो न कार्यः । ततो वक्ति-खमरिज्जो क्षमणीयः सोढव्यः, भे भवद्भिः, किलामो क्लमः संस्पर्शे सति देहग्लानिरूपः । तथा, अप्प किलंताणं अल्पं स्तोकं क्लान्तं क्लमो
(१) च त्रिः प्रदचिणीकृत्य प्रम्सृज्य ।