________________
योगशास्त्रे
'षिधू गत्याम्' इत्यस्य निपूर्वस्य धजि निषेधः प्राणातिपातादिनिवृत्ति: स प्रयोजनमस्या नैषेधिको तनुः, तया कीदृश्या, यापनीयया 'यांक प्रापणे' अस्य णिगन्तस्य प्वागमे यापयतीति यापनीया प्रवचनीयादित्वात् कर्तर्यनीयः तया, शक्तिसमन्वितया इत्यर्थः। अयं समुदायार्थः । हे श्रमणगुणयुक्त ! अहं शक्ति समन्वितशरीर: प्रतिषिद्धपापक्रियश्च त्वां वन्दितुमिच्छामि। अत्र विश्रामः । अत्र चान्तर गुरुर्यदि व्याक्षेपबाधायुक्तस्तदा भणति प्रतीक्षस्वेति । तच्च बाधादिकारणं यदि कथनयोग्य भवति तदा कथयति अन्यथा तु नेति चूर्णि कारमतम्, वृत्तिकारस्य तु मतं त्रिविधेनेति भणति मनसा वचसा कायेन प्रतिषिद्धोऽसीत्यर्थः । तत: शिष्यः संक्षेपवन्दनं . करोति । व्याक्षेपादिरहितश्चेद्गुरुः तदा वन्दनमनुज्ञातुकाम: छन्देनेति वदति छन्देनाऽभिप्रायेण ममाऽपि एतदभिप्रेतमित्यर्थः । ततो विनेयोऽवग्रहाद बहिःस्थित एवैवमाह अनुजानीत अनुमन्यध्वं मे इति आत्मनिर्देशे, किं, मितश्चासाववग्रहश्च मितावग्रहः. इहाचार्यस्य चतसृषु दिक्षु आत्मप्रमाणं क्षेत्रमवग्रहः, तस्मिन्त्राचार्याऽनुज्ञां विना प्रवेष्टुं न कल्पते,
यदाह
'आयप्पमाणमेत्तो च उद्दिसं होइ अवग्गहो गुरुणो । अणणुमायस्म सया न कप्पए तत्थ पविसेउ ॥ १ ॥
( १ ) श्रात्मप्रमाणमात्र चतुर्दिशं भवत्यवग्रहो गुरोः।
अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुम् ॥ ६॥