________________
टतीयः प्रकाशः ।
आवसिआए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसत्रयगए जं किंचि मिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोहाए सब्वकालियाए सबमिच्छोवयाराए सब्बधम्माइक्कमगाए अासायणाए जो मे अइआरो को तस्म खमासमणो ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि।
व्याख्या-अत्र हि शिष्यो गुरुवन्दनेन वन्दितुकामः पूर्वं लघुवन्दनपुरःसरं संदंशको प्रमृज्योपविष्ट एव मुखवस्त्रिका पञ्चविंशतिकृत्व: प्रत्युपेक्षते, 'तया च शरीरं पञ्चविंशतिकत्व एव प्रमृज्य परण विनयेन मनोवाकायसंशुद्धी गुरोः सकाशादात्मप्रमाणात् क्षेत्राद बहिःस्थितोऽधिज्यचापवदवनतकायः करहयग्रहीतरजीहरणादिवन्दनायोद्यत एवमाह - इच्छामि अभिलषामि अनेन बलाभियोगः परिहृतः, क्षमाश्रमण ! 'क्षमूषि सहने' इत्यस्य षित्त्वादडि क्षमा सहनमित्यर्थः, शाम्यति संसारविषये खिन्नो भवति तपस्यतीति वा, नन्द्यादित्वात् कर्तरि अने श्रमणः, क्षमाप्रधान: श्रमण: क्षमाश्रमण: तस्य सम्बोधने प्राकृत खमासमणो! “डो दी? वा" ॥ ( सिद्दहम०८।३।३८ ) ॥ इति आमन्त्रा से कारः, क्षमाग्रहणन मार्दवाजवादयो गुणाः सूचिताः । ततश्च क्षमादिगुणोपलक्षितयतिप्रधान !। अनेन वन्दनाहवं तस्यैव सूचितम्, किं कर्तु वन्दितुं नमस्कर्तु भवन्तमिति - गम्यते, कया, यापनीयया नषेधिक्या, अत्र नैषेधिक्येति विशेष्यं, यापनीययेति विशेषणम्,
(१)
च तथा।
८४