SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः । ६ ६ ३ रुष्टं क्रोधाध्मातस्य गुरोर्वन्दनमात्मना वा क्रुद्धेन वन्दनम् ।१८। तर्जितमवन्द्यमानो न कुप्यसि वन्दमानश्चाविशेषज्ञतया न प्रसीदसि इति निर्भयतो यहा बहुजनमध्ये मां वन्दनं दापयंस्तिष्ठसि ज्ञास्यते मया तवैकाकिन इति धिया तर्जन्या शिरसा वा तर्जयतो वा वन्दनम् | १६ | शठं शाठ्येन विश्रम्भार्थं वन्दनं ग्लानादिव्यपदेशं वा कृत्वा न सम्यग्वन्दनम् | २० | होलितं हे गणिन् वाचक ! किं भवता वन्दितेनेत्यादिना अवजानतो वन्दनम् |२१| विपरिकुंचितम्, अर्धवन्दित एव देशादिकथाकरणम् |२२| दृष्टादृष्टं तमसि स्थितः केनचिदन्तरित एवमेवास्ते दृष्टस्तु वन्दत इति । २३| शृङ्गं अहो कायं काय इत्याद्यावर्तानुच्चारयतो ललाटमध्यदेशमस्पृशतः शिरसो वामदक्षिणे शृङ्गे स्पृशतो वन्दनकरणम् | २४ | करः कर इव राजदेयभाग इव अग्रणीतो वन्दनककरोऽवश्यदातव्य इति धिया वन्दनम् । २५। मोचनं लौकिककराइयं मुक्ता न मुच्यामहे वन्दनकरादिति बुद्धया वन्दनम् | २६ | आश्लिष्टानाश्लिष्टमत्र चतुर्भङ्गी, सा च अहो कायं काय इत्याद्यावर्तकाले भवति रजोहरणस्य शिरसव कराभ्यामाश्लेषणं, रजोहरणस्य न शिरसः, शिरसो न रजोहरणस्य, न रजोहरणस्य नाऽपि शिरमः । अत्र प्रथमः शुद्धः शेषास्तु दुष्टाः । २७ । न्यूनं व्यञ्जनाभिलापावश्यकै र सम्पूर्णम् |२८| उत्तरचलं वन्दनं दत्त्वा महता शब्देन मस्तकेन वन्दे इत्यभिधानम् । २९ । मूकं आलापाननुच्चारयतो वन्दनम् । ३० । ढड्ढरं महता शब्देनोच्चारयतो वन्दनम् । ३१ । चुडलो उल्मुकं यथोल्नुकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनं, या यत्र दीर्घहस्तं
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy