________________
तृतीयः प्रकाशः |
६५८ करणेन शत्रुभित्रटणकाञ्चनादिषु समता, तच्च पूर्वमेवोक्तम् । चतुविंशतेस्तीर्थकराणां नामोत्कीर्तनपूर्वकं स्तवो गुणकीर्तनं तस्य च कायोत्सर्गे मनसाऽनुध्यानं शेषकालं व्यक्तवर्णपाठः । अयमपि पूर्वमुक्तः । वन्दनं वन्दनायोग्यानां धर्माचार्याणां पञ्चविंशत्यावश्यक विशुद्धं हात्रिंशद्दोषरहितं नमस्करणम् । तत्र पञ्चविंशतिरावश्यकानि यथा -
'दुश्रोण्यं अहाजायं कियकम्मं बारसावयं ।
तथा
चउसिरं तिगुत्तं च दुपवेसं एगनिक्वमणं ॥ १ ॥ इति । 'हे अवनमने इच्छामि खमासमणो बंदिउं जावणिज्जाए निसौहियाए इत्यभिधाय गुरोश्छन्दानुज्ञापनाय प्रथममोत्या मवनमनम् | १| यदा पुनः कृतावर्तो निष्क्रान्त इच्छा त्यादिसूत्रमभिधाय पुनञ्छन्दोऽनुज्ञापनायैव तदा द्वितीयम् २ | यथाजातं जातं जन्म तच्च द्वेधा प्रभवः प्रव्रज्याग्रहणं च । तत्र प्रसवकाले रचितकर संपुटों जायते प्रव्रज्याकाले च गृहीतरजोहरणमुखवस्त्रिक इति यथाजातमस्य स यथाजातस्तथाभूत एव वन्दते इति वन्दनमपि यथाजातम् । ३ । तथा द्वादशावर्ता: काय वेष्टाविशेषा गुरुचरणन्यस्तहस्तशिरः स्थापनरूपा यस्मिंस्तद् दादशावर्तमिह च प्रथमप्रविष्टस्य अहो कायं इत्यादि सूत्रोच्चारणगर्भाः षडावर्ता : निष्क्रम्य पुनः प्रविष्टस्याऽपि त एव डिति द्वादश | १५ | चत्वारि शिरांसि यस्मिन् तच्चतुः शिरः
( १ | · प्रवनतं यथाजातं कृतकर्म द्वादशावर्तम् ।
चतुः शिरः त्रिगुप्तं च द्दिप्रवेशमेकनिष्कृमणम् ॥ १ ॥