SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ६५८ योगशास्त्रे कालो भोजनकाल इति रूढेमध्याह्लादगिपि गृहीतप्रत्याख्यानं तौरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यंति । अत्र चाऽयं विधिः'जिनपूओचिअदाणं परियण सम्भालणा उचियकिच्चं । ठाणु वएमो य तहा पञ्चक्वाणस्म सम्भरणं ॥ १ ॥ तथा भोजनाऽनन्तरं सम्भवतो ग्रन्थिसहितादेः प्रत्याख्यानस्य करणं प्रमादपरिजिहीर्षोहिं प्रत्याख्यानं विना न युक्तं क्षणमप्यासितुम् । शास्त्रार्थानां रहस्यान्यैदंपर्याणि विचारयेदिदमित्य भवति नेति वा सम्प्रधारयेत्, कथं, सह साधु कैस्तहिद्भिः तच्छास्वार्थरहस्यं विदन्ति ये तैः, गुरुमुखात् श्रुतान्यपि शास्त्रार्थ- . रहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीति कृत्वा ॥ १२८ ॥ ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः । कृतावश्यककर्मा च कुर्यात् खाध्यायमुत्तमम् ॥१३॥ ततस्तदनन्तरं यो डिर्भुङ्क्ते स विकालसमये अन्तर्मुहर्तादर्वाग् भोजनं कृत्वा सध्यासमये पुनस्तृतीयवारं देवार्चनं कृत्वा साधुसमीपं गत्वा भूमिकौचित्येन षड्विधावश्यक सामायिकचतुर्विंशतिस्तव वन्दनक-प्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यानलक्षणं कुयात् ; तत्र सामायिकमार्तरोद्रध्यानपरिहारेण धर्मध्यानपरि (१) जिन पूजोचित दानं परिजनसंभालनमुचित कृत्यम् । स्थानोपदेशश्च तथा प्रत्याख्यानस्य संभरणम ॥ १ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy