SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः । गमनेऽनुगमनं पृष्ठतः कतिपयपदानुसरण मियं प्रतिपत्तिरुपचारविनयरूपा गुरोधर्माचार्यस्य ॥ १२७ ॥ ततो गुरुपाखें धर्मदेशनां श्रुत्वा अवा ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधीधर्माऽविरोधेन विदधीतार्थचिन्तनम् ॥ १२८॥ ततो देवग्टहात् प्रतिनिवृत्तो व्यावृत्त: मन् यथोचितं स्थानं गत्वा यथोचित मिति यदा राजादिस्तदा धवलग्रहं यद्यमात्यादिस्तदा करणम् ; अथ वणिगादिस्तदा आपण मिति सुधीर्बुद्धिमान् विदधीत अर्थचिन्तनमर्थोपायचिन्तां धर्माविरोधेनेति धर्मस्य जिनधर्मस्य अविरोधेन अबाधया । अत्र चार्थचिन्तनमित्यनुवाद्यं तस्य स्वत:सिद्धत्वात् धर्माविरोधेनेति विधेयमप्राप्तत्वात् । धर्माः विरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमनीचयोर्माध्यस्थान न्यायदर्शनात, नियोगिनां च राजार्थप्रजार्थसाधनेन, वणिजां च कूटतुलाकूटमानादिपरिहारेण पञ्चदशकर्मादानपरिहारेण च बोद्धव्यः ॥ १२८ ॥ ततो माध्याङ्गिकौं पूजां कुर्यात् कृत्वा च भोजनम् ॥ तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् ॥ १२६ ॥ ततस्तदनन्तरं माध्याहिकों मध्याह्नकालभाविनी पूजा जिनसपां कुर्यात् कृत्वा विधाय च भोजनमित्य नुवादः । माध्यह्निको पूजाभोजनयोश्च न कालनियमः । तीव्रबुभुक्षोहि बुभुक्षा ८३
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy