________________
योगशास्त्रे
ततोऽनन्तरं गुरूणां धर्माचार्याणां देववन्दनार्थमागतानां स्नात्त्रादिदर्शनधर्मकथाद्यर्थं तत्रैव स्थितानामभ्यर्णे उचिते समीपे, उचितत्वं चार्धचतुर्थहस्तप्रमाणात् क्षेत्राद् बहिरवस्थानम्, प्रतिपत्तिर्व्याख्यास्यमाना वन्दनकादिरूपा वा, तत्पुरःसरं तत्पूर्वकं, विदधीत कुय्यात्, विशुद्धात्मा निर्मलचित्तो न तु दम्भादियुक्तः, प्रत्याख्यानस्य देवसमीपे कृतस्य प्रकाशनं गुरोः पुरतः प्रकटनम् ; त्रिविधं हि प्रत्याख्यानविधानमात्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च ॥ १२५ ॥ प्रतिपत्तिपुरःसरमित्युक्तमिति गुरुप्रतिपत्तिं लोक येन दर्शयतिअभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ॥१२६॥ आसनाऽभिग्रहो भक्त्या वन्दना पर्युपासनम् ॥ तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ॥ १२७ ॥
६५६
अभ्युत्थानं ससम्भ्रममासनत्यागः, तदालोके गुरूणामालोकने सति, अभियानमभिमुखं गमनं तदागमे गुर्वागमे, शिरसि मस्तके गुरुदर्शन समकालमञ्जलिसंश्लेषः करकोरककरणं नमो खमाममणाणंति वचनोच्चारपूर्वकं स्वयमित्यात्मना न तु परप्रेषणेन आसनढौकनमासनसन्निधापनम् ॥ १२६ ॥ आसनाऽभिग्रहः श्रासन उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रहः आसनाभिग्रहः, भक्त्या भक्तिपूर्वकं वन्दना पञ्चविंशत्यावश्यकविशुद्धं वन्दनं स्थानस्थितानां च गमनादिव्याकुलत्वाभावे पर्य्युपासनं मेवा, तेषां गुरूणां याने