SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः । ६ ५५ 'साहुवसम्म तो सो सइ सामत्यम्मि अपडियारो अ । एमाइयाई इत्थं लोगविरुडाई आई ॥ ३ ॥ गुरुजनस्य पूजा उचितप्रतिपत्तिर्गुरुजनपूजा, गुरवश्च यद्यपि धर्माचाया एवोच्चन्ते तथापोह मातापित्रादयोऽपि गृह्यन्ते । यदुक्तम् माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ १ ॥ परार्थकरणं सत्त्वार्थकरणं जीवलोकसारं पौरुषचिह्नमेतत् । सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारी भवतीत्याह-शुभगुरुयोगो विशिष्टचारित्रयुक्ताचार्य सम्बन्धः, तथा तद्दचनसेवा सद्गुरुवचनसेवना, न जातुचिदयमहितमुपदिशति, आभवमासंसारमखण्डा सम्पूर्णा । इदं च प्रणिधानं न निदानरूपम्, प्रायेण निस्सङ्गाभिलाषरूपत्वात् । एतच्चाप्रमत्तसंयतादर्वाक् कर्तव्यम्, अप्रमत्तादीनां मोक्षेऽप्यनभिलाषात् । तदेवंविधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनम् ॥ १२४ ॥ इदानीमनन्तरकरणीयमाह ततो गुरुणामभ्यर्णे प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् ॥ १२५॥ (१) साधुवने तु स सति सामर्थेऽप्रतिकारश्च । मादिकानि इत्थं लोकविरुद्धानि सेयानि ॥ ३ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy