________________
तृतीयः प्रकाशः ।
६५३
अयमत्र भावः, सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभूतस्याध्यवसायस्य हेतुर्भवति यथाभूतात् श्रेणिमवाप्य निस्तरति भवोदधिमिति । अतः कार्ये कारणोपचारादेवमुच्यते । न च चारित्रस्य वैफल्यम्, तथाभूताध्यवसायस्यैव चारित्ररूपत्वादिति । एतास्तिस्रः सुनयो गणधर कृतत्वाद निय मेनोच्यन्ते केचित्तु अन्ये अपि स्तुती पठन्ति -
यथा
उज्जित सेलसिहरे दिक्खा नाणं निसोहिया जस्म तं धम्मचक्कवहिं अरिनेमिं नम॑सामि ॥ ४ ॥ चत्तारि अद्र दस दो अ वंदिश्रा जिणवरा चडवीसं । परमट्ठनिट्ठिट्ठा सिद्धा सिद्धिं मम दिमंतु ॥ ५ ॥
सुगमे । एवमेतत्पठित्वोपचित पुण्य सम्भार उचितेष्वौचित्येन प्रवृत्तिरिति ज्ञापनार्थं पठति पठन्ति वा वैयावच्चगराणं सन्तिगराणं सम्मदिट्ठितमाहिगराणं करेमि काउस्सग्गं वैयावृत्यकराणां प्रवचनार्थं व्यापृतभावानां गोमुखयचाऽप्रतिचक्राप्रभृतौनां शान्तिकराणां सर्वलोकस्य सम्यग्दृष्टिविषये समाधिकराणाम्, एषां सम्बन्धिनां षष्ठ्याः सप्तम्यर्थत्वादेतद्दिषयमेतान् वाश्रित्य करोमि कायोत्सर्गम् । अत्र वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि तु अन्यत्रोच्छु सिर्तनेत्यादि, तेषामविरतत्वात् इत्थमेव तद्भाववृद्धेरुपकारदर्शनात् । एतद्याख्या च पूर्ववत् । नवरं स्तुतिर्वैयावृत्यकराणां पुनस्तेनैव विधिना उपविश्य पूर्ववत् प्रणिपातदण्ड कं पठित्वा मुक्ताशक्तिमुद्रया प्रणिधानं कुर्वन्ति ।