________________
६५२
योगशास्त्रे
एकोऽप्यासतां बहवः, नमस्कारो द्रव्यभावसंकोचलक्षणः, जिनवरवृषभाय -- जिना: श्रुतावधिजिनादयः तेषां वराः केवलिनस्तेषां वृषभः तौर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभस्तस्मै । स च ऋषभादिरपि भवतीत्याह - वर्धमानाय यत्नात्कृतः सन्निति शेषः । किम् ? संसरणं संसार स्तिर्यग्नरनार काऽमरभवाऽनुभावलक्षणः स एव भवस्थितिकाय स्थितिभ्यामनेकधावस्थानेनाऽलब्ध पारत्वात्सागर. इव संसारसागरः, तस्मात् तारयति पारं नयतीत्यर्थः । कमित्याह ? - नरं वा नारों वा नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थम्, नारीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थम् । यथोक्तं यापनीयतन्त्रे
उद्मা,
'नो खलु इत्यो अजोवो, न यावि अभव्वा, न यावि दंसणविरोहिणी, नो अमाणुस्सा नो अणायरियउप्पन्ना, नो असंखेज्जानो अइकूरमई, नो अणुवसन्तमोहा, नो असुद्धाचारा, नो असुद्धबोंदी, नो ववसायवज्जिया, नो अपुव्वकरणविरोहिणी, नो नवगुणट्ठाणरहित्र, नो अजोग्गा लडीए, नो अकलाणभायणं ति कहं न उत्तम धम्मस्स साहगा ? इति ।
(१) नो खलु स्त्री अजीवः, न चाप्यभव्या, न चापि दर्शनविरोधिनी, नो अमानुष्य', नो अनार्योत्पन्ना, नो असंख्येयायुष्का, नो अतिक्रूरमतिः, नो अनुपशान्तमोहा, नो अशुद्धाचारा, नो अशुद्धशरोरा, नो व्यवसायवर्जिता, नो पूर्वकरण विरोधिनी, नो नवगुणस्थानरहिता, नो अयोग्या लब्धप्राः, मो का कल्याणभाजनमिति कथं नोत्तमधर्मस्य साधिका ? इति ।