SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः । 'बत्तीसा अडयाला सट्ठी बाहत्तरी य बोद्धव्वा । चुलसीई छाउई दुरहिमहोत्तरसयं च ॥ १ ॥ नन्वेते सिद्धभेदा: आद्ययोस्तीर्थसिद्धाऽतीर्थसिद्धयोरेवाऽन्तर्भवन्ति, तीर्थकरसिद्धादयो हि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वेति। सत्यम्, सत्यप्यन्तर्भाव पूर्वभेदहयादेवोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थ भेदाभिधानमदुष्ट मिति । इत्यं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसबोपकारित्वादर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्धमानस्वामिनः स्तुतिं करोति जो देवाण वि देवो जं देवा पंजली नमसंति । तं देवदेवमहिअं सिरसा वन्दे महावीरं ॥ २ ॥ यो भगवान् महावीरो देवानामपि भवनवास्यादीनां पूज्यत्वाद् देवः, अत एवाह -यं देवा: प्राञ्जलयो विनयरचितकरसम्पुटाः सन्तो नमस्य न्ति प्रणमन्ति, तं भगवन्तं देवदेवैः शक्रादिभिर्महितं पूजितम्, वन्दे शिरसा उत्तमाङ्गेन.आदरप्रदर्शनार्थं चैतत् । तं कं ? महावीरम्, विशेषेण ईरयति कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तम् । इत्यं स्तुतिं कृत्वा पुनः परोपकाराय आत्मभावद्धये च फलप्रदर्शनपरमिदं पठति इको वि नमुकारो जिणवरवसहस्म वडमाणस्म । संसारसागराओ तारेइ नरं व नारिं वा ॥ ३ ॥ (१) हात्रिंशदष्ट चत्वारिंशत् षष्टिसप्ततिच बोजव्याः । चतुरशीतिः षण वतिहरहितमष्टोत्तरशतं च ॥ १ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy