SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे रेण बुध्यन्ते, प्रत्येकबुद्धास्तु बाह्यप्रत्ययेन वृषभादिना करकण्डादिवत्, उपधिस्तु स्वयंबडानां पात्रादिर्हादशधा, प्रत्येकबुद्धानां प्रावरणवों नवविध: ; स्वयंबुद्धानां पूर्वाधीतयुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव ; लिङ्गप्रतिपत्तिस्तु स्वयंबुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबद्धानां तु देवता लिङ्गं प्रयच्छति ; बुद्धा प्राचार्या अवगततत्त्वाः तैर्बोधिता: सन्तो ये सिद्धा: ते बुद्धबोधितसिद्धाः १७। एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, केचित् पुंलिङ्गसिडाः, केचित् नपुंसकलिङ्गसिद्धाः। ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिडा भवन्ति ?, उच्यते, भवन्त्येव-यदुक्तं सिद्ध प्राभृते-'सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरतिस्ये नोतिस्थयरसिद्धा असंखेज्जगुणा, तित्थयरितिस्थे नोतिस्थयरिसिद्धाो प्रसंखिज्जगुणाओ, तिस्थयरितिस्थे नोतिस्थयरसिद्धा असंखेज्जगुणा इति । नपुंसकलिङ्ग सिद्धास्तु तीर्थकरसिहा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्त पुंलिङ्गसिद्धा एव ।८।८।१०। स्खलिङ्गेन रजोहरणादिना द्रव्यलिङ्गेन सिद्धाः स्वलिङ्गसिद्धाः ।११। अन्येषां परिव्राजकादीनां लिङ्गेन सिद्धा अन्यलिङ्गसिद्धाः । १२ । रहिलिग्रसिद्धा मरुदेव्यादयः ।१३। एकै कस्मिन् समये एकाकिन: सिद्धाः एकसिडाः ।१४। एकस्मिन् समये अष्टोत्तरं शतं यावत् सिद्धा अनेकसिद्धाः ॥१५॥ यत उक्तम् (१) सर्वस्तोकास्तीर्थकरीसिद्धास्तीर्थकरतीर्थे नोतीर्थकरसिद्धा असंख्येयगुणाः, तीर्थकरोतीर्थे नोतोर्थ करीसिद्धा असंख्येय गुणाः, तीर्थकरीतीर्थे नोतीर्थकरसिडा असंख्येय गुणाः।
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy