________________ 782 योगशास्त्रे हासशोकहेषहर्षानसतोऽप्यात्मनि स्फुटम् / खामिनोऽग्रे लोभवन्तो नाटयन्ति नटा इव // 10 // प्रारभ्यते पूरयितुं लोभगर्तो यथा यथा / तथा तथा महच्चित्रं मुहुरेष विवर्धते // 11 // अपि नामैष पूर्येत पयोभिः पयसां पतिः / न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यते // 12 // अनन्ता भोजनाच्छादविषयद्रव्यसचयाः / भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते // 13 // लोभस्त्यतो यदि तदा तपोभिरफलैरलम् / लोभस्त्यतो न चेत् तहि तपोभिरफलैरलम् // 14 // मृदित्वा शास्त्रसर्वस्वं मयैतदवधारितम् / / लोभस्यैकस्य हानाय प्रयतेत महामतिः // 15 // 18 // 20 // 2. लोभस्वरूपं निरूप्य तज्जयोपायमुपदिशतिलोभसागरमुद्देलमतिवेलं महामतिः / संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् // 22 // लोभ एवाप्राप्तपारत्वेन सागरस्तम्, उद्देलमुहृतवेलं तत्तदुत्कलिकावत्त्वेन विवृद्धोच्छ्रायम्, अतिवेलं भृशम्, एतच्च निवारयेत्' इति क्रियाया विशेषणम् / 'प्रसरन्तम्' इति लोभसागरस्य विशेषणम् / महामतिर्मुनिः / निवारणकारणमुपदिशति-संतोषसेतुबन्धेन संतोषो लोभप्रतिपक्षभूतो मनोधर्मः स एव सेतुबन्धी