________________
चतुर्थः प्रकाशः ।
७६१ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते। मूले लघीयांस्तल्लोमः सराव दूव वर्धते ॥ २१ ॥ स्पष्टम् । अत्रान्तरलोकाःहिंसेव सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः ॥ १ ॥ . अहो ! लोभस्य साम्राज्यमेकच्छतं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥ २ ॥ 'अपि द्रविणलोभेन ते वित्रिचतुरिन्द्रियाः । खकीयान्यधितिष्ठन्ति प्राग्निधानानि मूर्च्छया ॥ ३ ॥ भुजङ्गरहगोधाखुमुख्याः पञ्चेन्द्रिया अपि । धनलोभन लीयन्ते निधानस्थानभूमिषु ॥ ४ ॥ पिशाचमुहलप्रेतभूतयक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः ॥ ५ ॥ भूषणोद्यानवाप्यादौ मूर्च्छितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वी कायादियोनिषु ॥ ६ ॥ प्राप्योपशान्तमोहवं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि ॥ ७ ॥ एकामिषाभिलाषेण सारमेया इव द्रुतम् । सोदर्या अपि युध्यन्ते धनलेशजिक्षया ॥ ८॥ लोभाद ग्रामाट्रिसौमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ॥ ८ ॥