SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे इति निगदितमुग्रं कर्म कौटिल्यभाजा. मृजुपरिणतिभाजां चानवद्यं चरित्रम् । तदुभयमपि बुद्ध्या संस्पृशन् मुक्तिकामो निरुपममृजुभावं संश्रयेच्छुडबुद्धिः ॥१३॥१७॥ इदानों लोभकषायस्वरूपमाहआकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥१८॥ प्राकरः खानिः सर्वदोषाणां प्राणातिपातादीनां 'लोहादीनामिव' इति गम्यते ; गुणानां ज्ञानादीनां प्राणिनामिव यद् ग्रसनं कवलनं तत्र राक्षस इव राक्षस: ; तथा, कन्दो मूलाधोऽवयव:, कासां ?, व्यसनवल्लीनां व्यसनानि दुःखानि तान्येव वल्लयस्तासाम्, लोभश्चतुर्थकषायः, तस्य स्वरूपसंग्रहमाह—सर्वार्थबाधकः सर्वेषामर्यन्त इत्यर्था धर्मार्थकाममोक्षलक्षणास्तेषां बाधकः प्रतिकूलः । लोभस्य सर्वदोषाकरत्वम्, गुणघातकत्वम्, व्यसनहेतुत्वं सर्वपुरुषार्थघातकत्वं च प्रसिद्धमेव ॥ १८ ॥ लोभस्य दुर्जयत्वं श्लोकत्रयेणाहधनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्षं कोटिं लक्षेश्वरोऽपि च ॥१६॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्ति ताम्। . चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥२०॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy