________________
चतुर्थः प्रकाशः |
सर्वे जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् ।
एतावाज्ञानविषयः प्रलापः किं करिष्यति ? ॥ २ ॥ इति । भवेयुरार्जवजुषो लोकेऽपि प्रौतिकारणम् ।
कुटिलादुद्दिजन्ते हि जन्तवः पन्नगादिव ॥ ३ ॥ अजिह्मचित्तवृत्तीनां भववासस्पृशामपि ।
326
अकृत्रिमं मुक्तिसुखं स्वसंवेद्यं महात्मनाम् ॥ ४ ॥ कौटिल्यशङ्कुना क्लिष्टमनसां वञ्चकात्मनाम् । परव्यापादनिष्ठानां स्वप्नेऽपि स्यात् कुतः सुखम् ॥ ५ ॥ 'समग्र विद्यावैदुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ॥ ६ ॥ अज्ञानामपि बालानामार्जवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् ? ॥ ७ ॥ स्वाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्मं हित्वा कः कृत्रिमं श्रयेत् ॥ ८ ॥ छलपैशुन्यवक्रोक्तिवञ्चनाप्रवणे जने ।
धन्याः केचिद् निर्विकाराः सुवर्णप्रतिमा इव ॥ ८ ॥ ताब्धिपारप्राप्तोऽपि गौतमो गणभृद्दरः । अहो! शैक्ष इवाश्रौषीदाजवाद भगवद्गिरः ॥ १० ॥ अशेषमपि दुष्कर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचनां कुर्वन्न्रल्पीयोऽपि विवर्धयेत् ॥ ११ ॥ काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः, किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥१२॥