________________
योगशास्त्रे तदेवं सर्वलोकेऽपि परवञ्चकतापराः ।
खस्य धर्म सहतिं च नाशयन्तः स्ववञ्चकाः ॥ १४ ॥ तथा,तिर्यग्जातः परं बीजमपवर्गपुरागला। विश्वासद्रुमदावाग्निर्माया हेया मनीषिभिः ॥ १५ ॥ मल्लिनाथः पूर्वभवे कृत्वा मायां तनीयसीम् । मायाशल्यमनुत्खाय स्त्रीत्वं प्राप जगत्पतिः ॥१६॥१६॥ इदानीं मायाजयाय तत्प्रतिपक्षभूतमार्जवमुपदिशबाहतदार्जवमहौषध्या जगदानन्दहेतुना। जयेज्जगद्रोहकरौं मायां विषधरीमिव ॥१०॥
यतो माया एवंविधा तत् तस्माद मायां विषधरीमिव जयेत् । मायाविषधर्योः साधर्म्यमाह-जगद्रोहकरों जगतो जङ्गमलोकस्य द्रोहोऽपकारस्तं करोतीत्येवंशीला जगद्रोहकरी ताम् । केन जयेत् ? आर्जवमहौषध्या आर्जवमकौटिल्यं तदेव महानुभावा ओषधिमहौषधिस्तया । उभयोः साधर्म्यमाह-जगदानन्दहेतुना जगतो जंगमलोकस्य यथायथं य आनन्दः कायारोग्यप्रभव: प्रीतिविशेषो वञ्चकत्वपरिहारेण कषायजयाद मोक्षरूपश्च तस्य हेतुना कारणेन । अत्रान्तरलोकाः
आर्जवं सरलः पन्था मुक्ति पुर्याः प्रकीर्तितः । प्राचारविस्तरः शेषो बाह्या अपि यदूचिरै ॥ १ ॥