________________
७८७
चतुर्थः प्रकाशः । कूटाः कूटतुलामानाशुक्रियाकारियोगत: । यञ्चयन्ते जनं मुग्धं मायाभाजो वणिग्जनाः ॥ ३ ॥ जटामौण्डाशिखाभस्मवल्वनाग्न्यादिधारमैः । मुग्ध श्राई गर्धयन्ते पाखण्डा हृदि नास्तिकाः ॥ ४ ॥ अरक्ताभिर्भावहावलौलागतिविलोकनैः । कामिनो रञ्जयन्तीभिर्वेश्याभिर्वचाते जगत् ॥ ५ ॥ प्रतार्य कूटैः शपथैः कृत्वा कूटकपदिकाम् । धनवन्त: प्रतार्यन्ते दुरोदरपरायणः ॥ ६ ॥ दम्पती पितरः पुत्रा: सोदयाः सुहृदो निजाः । ईशा भृत्यास्तथान्येऽपि माययाऽन्योन्यवञ्चकाः ॥ ७ ॥ अर्थलुब्धा गतवृणा वन्दकारा मलिम्लुचाः । अहर्निशं जागरूकाश्छलयन्ति प्रमादिनम् ॥ ८ ॥ कारवशान्त्यनाश्चैव स्वकर्मफलजीविनः । माययाऽलोकशपथैः कुर्वते साधुवञ्चनम् ॥ ८ ॥ व्यन्तरादिकुयोनिस्था दृष्ट्वा प्रायः प्रमादिनः । क्रूराश्छलैबहुविधैर्बाधन्ते मानवान् पशून् ॥ १० ॥ मत्सयादयो जलचराश्छलात् स्वापत्यभक्षकाः । बध्यन्ते धीवरेस्तेऽपि माययाऽऽनायपाणिभिः ॥ ११ ॥ नानोपायैर्मुगयुभिर्वञ्चनप्रवणैजडाः । निबध्यन्ते विनाश्यन्ते प्राणिनः स्थलचारिणः ॥ १२ ॥ नभश्चरा भूरिभेदा वराका लावकादयः । बध्यन्ते माययाऽत्युग्रेः स्वल्पकग्रासरघ्नुभिः ॥ १३ ॥