SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ७८६ । योगशास्त्र शाखी तस्य परशरिव परशः, च्छेदकत्वात् ; तथा जन्मभूमिरुत्पत्तिस्थानम्, कासाम् ? अविद्यानां मिथ्याज्ञानानाम् । सा च दुर्गतः कारणमिति प्रधानफलनिर्देशः ॥ १५ ॥ ... परवञ्चनार्थं प्रयुक्ताया मायायाः परमार्थतः स्ववञ्चनमेव फलमित्याह कौटिल्यपटवः पापा मायया बकवृत्तयः । भुवनं वञ्चयमाना वञ्चयन्ते स्वमेव हि ॥१६॥ मायया वतीयकषायेण भुवनं जगद् वञ्चयमानाः प्रतारयन्तः खमेवात्मानमेव वञ्चयन्ते । के ? पापा: पापकर्मकारिणः । पापकर्मनिवार्थमेव बकवृत्तयः, यथा बको मत्स्यादिवञ्चनार्थं मन्दं मन्दं विचेष्टते तथा तेऽपि जगहञ्चनार्थ तथा चेष्टन्ते यथा बकसदृशा भवन्ति। ननु मायया जगहञ्चनम्, तस्याश्च निवः, इति कुत इयन्तं भारं ते वोढुं समर्थाः ? इत्याह-कौटिल्यपटव: कौटिल्यपाटवरहितो हि न कदाचित् परं वञ्चयते, नवा कदाचिद् निहत इति,कौटिल्यपाटवे तु इयं भवति परवञ्चनं वञ्चनाच्छादनं चेति। अत्रान्तरलोका:बूटषागुण्ययोगेन छलाद विश्वस्तधातनात् । अर्थलोभाच्च राजानो वञ्चयन्तेऽखिलं जनम् ॥ १ ॥ तिलकैर्मुद्रया मन्त्रैः क्षामतादर्शनेन च । अन्तःशून्या बहिःसारा वञ्चयन्ते हिजा जनम् ॥ २ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy