________________
चतुर्थः प्रकाशः ।
७८१
मानकषायस्य स्वरूपमाह
विनयश्रुतशौलानां विवर्गस्य च घातकः । विवेकलोचनं लुम्पन् मानोऽन्धङ्करणो नृणाम् ॥१२॥
विनयश्च गुर्वादिषूपचारलक्षणः, श्रुतं च विद्या, शीलं च सुखभावता, तेषां घातकः । जात्यादिमदाध्यातो हि पिशाचकिप्रायो न गुर्वादोनां विनीतो भवति । अविनीतश्च गुरूनशुश्रूषमाणो न विद्यां प्रतिलभते । अतएव सर्वजनावज्ञाकारी स्वस्य दुःस्वभावतां प्रकटयति । न केवलं विनयादीनामेव घातको मानो यावत् त्रिवर्गस्य धर्मार्थकामलक्षणस्य । मदावलिप्तस्य हि नेन्द्रियजयः, तदधीनश्च धर्मः कथं स्यात् ? । अर्थोऽपि राजादिसेवापरायत्तवृत्तिर्मानस्तब्धस्य कथं स्यात् ? । कामस्तु मार्दवमूल एव, तत् कथं मानस्तब्धे स्थाणाविव भवेत् ? । किञ्च, अनन्धोऽन्धः क्रियतेऽनेनेत्यन्धङ्करणो मानः । केषां ? | नृणाम् । किं कुर्वन् ? । लुम्पन् । किं तत् ? । विवेकलोचनं विवेक: कृत्याकृत्यविचारणं स एष लोचनम्, “एकं हि चक्षुरमलं सहजो विवेकः” इति वचनात् । मानवतो हि वृद्धसेवामकुर्वाणस्य विवेकलोचनलोपनमवश्यंभावि, तस्मिंश्च सत्यन्धङ्करणत्वं मानस्य सुवचमेव ॥ १२ ॥
इदानीं मानस्य भेदानुपदर्शयं स्तत्फलमाह
जातिलाभकुलैश्वर्यबलरूपतपः श्रुतैः ।
कुर्वन् मदं पुनस्तानि होनानि लभते जनः ॥१३॥