________________
चतुर्थः प्रकाशः ।
७७९ श्रयणीया प्राथयितव्या एकैव क्षमा। न हि क्षमामन्तरेण क्रोधोपशमोपायो जगत्यस्ति, क्रोधफलसंप्रदानं तु वैरहेतुत्वेन प्रत्युत क्रोधवदिहेतुः, न तु तत्प्रशमाय इत्येक ग्रहणम् । क्षमा विशिनष्टि-संयमारामसारणिः संयम एव नवनवानां संयमस्थानानां तरूणामारोगहेतुत्वेन तदृद्धिहेतुत्वेन चारामो विचित्रतरुसमूहात्मकस्तस्य सारणि: कुल्या संयमारामधिहेतुतया पुष्यफलप्राप्तिहेतुतया च। क्षमा हि प्रशान्तवाहितारूपा चित्तपरिणति: सा सारणित्वेन रूषिता, नवनवप्रशमपरम्पराप्रवाहरूपत्वात् ।
अत्रान्तरलोका:अपकारिजने कोपो निरोडुं शक्यते कथम् । शक्यते सत्त्वमाहात्मयाद यहा भावनयाऽनया ॥ १ ॥ अङ्गीकृत्यात्मन: पापं यो मां बाधितुमिच्छति । खकर्मनिहितायास्मै कः कुप्येद बालिशोऽपि सन् ॥ २ ॥ प्रकुप्याम्यपकारिभ्य इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे ॥ ३ ॥ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः । मृगारिः शरमाप्रेक्ष्य शरक्षेप्तारमिच्छति ॥ ४ ॥ यैः परः प्रेरित: क्रूरैर्मह्यं कुप्यति कर्मभिः । तान्युपेक्ष्य परे क्रुध्यन् किं श्रये भषणश्रियम् ॥ ५ ॥ श्रूयते श्रीमहावीरः क्षान्त्यै म्लेच्छेषु जग्मिवान् । प्रयत्नेनागतां क्षान्तिं वोढुं किमिव नेच्छसि ॥ ६ ॥